जलदेति ॥ इहास्मिन्नद्रौजलदजालधनैर्मेघवृन्दसान्द्रैरसिताश्मनामिन्द्रनीलानां
मरीचिभिर्दीधितिभिः । 'भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्' इत्यमरः ।
उपहतप्रचया विघट्टितसंघाता अतएवादीपितकंदरा अप्रकाशितगह्वरा विवस्वतो
दीप्तिस्तिमिरैः संवलिता संहता व्यामिश्रितेव भवतीत्युप्रेक्षा ॥
भव्यो भवन्नपि मुनेरिह शासनेन क्षात्रे स्थितः पथि तपस्य हतप्रमादः । |
भव्य इति ॥ इहाद्रौ भव्यः शान्तो भवन्नपि मुनेर्व्यासस्य शासनेनेन्द्राराधनरूपेण क्षात्रे पथि क्षत्रियमार्गे स्थितः। गृहीतशस्त्र एवेत्यर्थः। हतप्रमादोऽप्रमत्तः सन्। तपस्य तपश्चर्यां कुरु । तपस्येति 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' इति क्यङ् । तदन्ताद्धातोर्लोट् । न च सर्वभूतहितकारिणो मे प्रमादः किं करिष्यतीति विश्वसितव्यमित्यर्थान्तरन्यासेनाह- हि यस्मात्प्रायेण बाहुल्येन। 'प्रायो वयस्यनशने मृतौ बाहुल्यतुल्ययोः'इति हेमचन्द्रः। हितमर्थं करोतीति हितार्थकरे विधौ व्यापारे सति । अन्तरायैर्विघ्नैर्विना श्रेयांसि लब्धुमसुखानि । अशक्यानीत्यर्थः। अतएव 'शकधृष--' इत्यादिना समानकर्तृकेषु तुमुन् । अकारणवैरिणः सर्वत्र सर्वस्यापि सन्तीति भावः ॥
मा भूवन्नपथहृ[१]तस्तवेन्द्रियाश्वाः संतापे दिशतु शिवः शिवां प्र[२]सक्तिम् । |
मा भूवन्निति ॥ तवेन्द्रियाण्येवाश्वास्ते । अपथेन हरन्तीत्यपथहृतो मा भूवन् । त्वामपथं मा निनीषुरित्यर्थः । 'माङि लुङ्' इत्याशीरर्थे लुङ् । संतापे तपःक्लेशे सति शिवः शिवां साधीयसीं प्रसक्तिं प्रवृत्तिमुत्साहं दिशतु । किंचेति चार्थः । लोकपाला इन्द्रादयस्तपसि विषये बलं शक्तिं रक्षन्तो वर्धयन्तः सन्त: कल्याणीं साध्वीं क्रियामनुष्ठानमधिकफलां क्रियासुः कुर्वन्तु । करोतेराशिषि लोट् ॥
इत्युक्त्वा सपदि हितं प्रियं प्रियार्हे धाम स्वं गतवति राजराजभृत्ये । |