पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
किरातार्जुनीये


णादिनः' इत्यमरः। फलस्य प्रसवस्य विपाकेन परिणामेन पिशङ्गतां गताः शालयो व्रीहिविशेषाः । वप्राम्भसि केदारोदके । 'पुनपुंसकयोर्वप्रः केदारः क्षेत्रम्' इत्यमरः । विकसतीति विकासि विकसितं गन्धेन सूचितं ज्ञापितमसितोत्पलं निघ्रातुमाघ्रातुमिव नमन्ति । 'निध्यातुमिव' इति पाठे द्रष्टुमित्यर्थः । निर्वर्णयितुं वा । 'निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः । अत्र फलभारान्नमनस्य निघ्राणफलकत्वमुत्प्रेक्ष्यत इति फलोत्प्रेक्षा॥   अथ चतुर्भिः कलापकमाह---

मृणालिनीनामनुरञ्जितं त्विषा विभिन्नमम्भोजपलाशशोभया ।
पयःस्फुरंच्छालिशिखापिशङ्गितंद्रुतं धनुष्खण्डमिवाहिविद्विषः ॥२७॥

  मृणालिनीनामिति ॥ मृणालिनीनां पद्मिनीनां त्विषा हरिवर्णेनानुरक्षितम् । तद्वर्णतामापादितमित्यर्थः । तथाम्भोजपलाशशोभया पद्मदलकान्त्या । आरुण्येनेत्यर्थः । विभिन्नं मिश्रितम् । तथा स्फुरच्छालिशिखापिशङ्गितं स्फुरद्भिः कलमात्रैः पिङ्गलीकृतमित्थं नानावर्णत्वाद्द्रुतं विलायितमहिविद्विषो वृत्रशत्रोरिन्द्रस्य । 'सर्पे वृत्रासुरेऽप्यहिः' इति वैजयन्ती। धनुष्खण्डमिव स्थितम् । 'नित्यं समासेऽनुत्तरपदस्थस्य' इति विसर्जनीयस्य षत्वम् । पयो वप्राम्भोऽपदिश्य व्याजीकृत्य धावतामित्यागामिना संबन्धः। अत्र धनुष्खण्डस्य द्रुतस्य लोकेऽप्रसिद्धत्वादुत्प्रेक्षेयं नोपमा ॥

विपाण्डु संव्यानमिवानिलोद्धतं निरुन्धतीः सप्तपलाशजं रजः।
अनाविलोन्मीलितबाणचक्षुषः सपुष्पहासा वनराजियोषितः॥२८॥

  विपाण्ड्विति ॥ विपाण्डु शुभ्रमनिलोद्धतमनिलोत्क्षिप्तम् । सप्त सप्त पलाशानि पत्राणि पर्वसु येषां ते वृक्षाः सप्तपलाशाः । क्वचित्संख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवदित्युक्तम् । तेषां पुष्पाणि सप्तपलाशानि। 'द्विहीनं प्रसवे सर्वम्' इत्यमरः। 'फले लुक्' इत्यणो लुक् । तेषु जातं सप्तपलाशजं रजः परागं संव्यानमुत्तरीयमिव । 'संव्यानमुत्तरीयं च' इत्यमरः । निरुन्धतीर्निवारयन्तीः।प्रावृतवतीरिति यावत् । अनाविलान्यकलुषाण्युन्मीलितानि च बाणानि नीलसैरेयकाणि चक्षूम्षीव यासां तास्तथोक्ताः। 'नीलस्वर्थगलो दासी बाण ओदनपाक्यपि' इति धन्वन्तरिः । पुष्पाणि हासा इव तैः सह वर्तन्त इति सपुष्पहासाः । वनराजयो योषित इव वनराजयोषितः । ता अपदिश्येत्यन्वयः। अत्र संव्यानमिवेत्युपमैवान्यत्रोपमितसमासे लिङ्गम् ।यथा काचित्- केनचित्कामुकेनाक्षिप्तं स्तनांशुकं निरुन्धे तद्वदिति भावः ॥

अदीपितं वैद्युतजातवेदसां सिताम्बुदच्छेदतिरोहितातपम् ।
ततान्तरं सान्तरवारिशीकरैः शिवं नभोवर्त्म सरोजवायुभिः॥२९॥

  अदीपितमिति ॥ वैद्युतजातवेदसा वैद्युताग्निनादीपितमप्रकाशितम् । विद्युत्प्रकाशस्य दृष्टिविघातकत्वात्तद्राहित्यं गुण इति भावः। सिताम्बुदानां छेदैः खण्डैस्तिरोहिता-