नवैर्गुणैः पूर्वोक्तैः शरद्धर्मै: संस्तवेन परिचयेन स्थिरं दृढमपि धनागमश्रियः प्रावृड्लक्ष्म्या:
संबन्धि । तद्विषयमित्यर्थः। प्रेम तिरोहितम् । निरर्थकं कृतमित्यर्थः । गुणतन्त्राः
प्रेमाणो न परिचयतन्त्रा इति भावः । वास्तवालंकारः॥
पतन्ति नास्मिन्विशदाः पतत्रिणो धृतेन्द्रचापा न पयोदपङ्क्तयः। |
पतन्तीति ॥ अस्सिन्नभसि विशदाः पतत्रिणो बलाका न पतन्ति न प्रसरन्ति । धृते- न्द्रचापाः पयोदपङ्क्तयश्च न पतन्ति । तथापि श्रीकारणाभावेऽपि नभः परां श्रियं शोभां पुष्णाति । तथाहि । रम्यं स्वभावसुन्दरं वस्त्वाहार्यमारोप्यमाणं गुणं नापेक्षते । तत्र स्वभावस्यैव समर्थत्वादिति भावः । अर्थान्तरन्यासः॥
विपाण्डुभिर्म्लानतया पयोधरैश्च्युताचिराभागुणहेमदामभिः । |
विपाण्डुभिरिति ॥ कदम्बानिलशब्देन वर्षर्तुरुपलक्ष्यते । स एव भर्ता तस्यात्यये विरहे म्लानतया निर्जलतया दुर्बलतया च विपाण्डुभिश्च्युतानि रहितान्यचिराभागुणा विद्युल्लता एव हेमदामानि सुवर्णसूत्राभरणानि येभ्यस्तैः पयोधरैरम्भोदैः । अन्यत्र स्तनैः। उपलक्षितानाम् । 'स्तनाम्भोदौ पयोधरौ' इति वैजयन्ती । दिश एव वध्वस्तासामियं कृशता न राजत इति न । किंतु राजत एव वियुक्तत्वात् । 'आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा' इति स्मरणादिति भावः। सामान्यतः प्रसक्तमराजनं कार्श्यास्यै- केन नञा संभाव्यं द्वितीयेन निषेधति।यथाह वामनः---'संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ' इति । अत्र रूपकालंकारः स्फुट एव ।
विहाय वाञ्छामुदिते मदात्ययादरक्तकण्ठस्य रुते शिखण्डिनः । |
विहायेति ॥ भदात्ययान्मदक्षयादरक्तकण्ठस्याश्राव्यस्वरस्य । कण्ठशब्देनात्र तद्गतः स्वरो लक्ष्यते । शिखण्डिनो मयूरस्य संबन्धिन्युदित उच्चैस्तरे रुते कूजिते वाञ्छां विहाय । श्रुतिः श्रोत्रम् । 'कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । उन्मदहंसनिःस्वनं मत्तमरालकूजितं श्रयति भजते । नन्वकाण्डे परिचिंतपरिहारेणापरिचिते कथं प्रीत्युदय इत्याशङ्क्यार्थान्तरं न्यस्यति-गुणा इति । प्रीणातीति प्रियः। 'इगुपधज्ञाप्रीकिरः कः' इति कप्रत्ययः । प्रियत्वे प्रीतिकरत्वे गुणा अधिकृता नियुक्ताः। संस्तवः परिचयो नाधिकृतो न समर्थः । प्रेमाधाने गुणवत्त्वं प्रयोजकं न परिचय इत्यर्थः॥
अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः । |
अमी इति ॥ अमी पृथून्स्त्रम्बान्गुच्छान्विभ्रतीति पृथुस्तम्बभृतः। 'स्तम्बो गुच्छस्तृ-