पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
चतुर्थः सर्गः ।


कपोलसंश्लेषि विलोचनत्विषा विभूषन्यतीमवतंसकोत्पलम् ।
सुतेन पाण्डोः कलमस्य गोपिकां नि[१]रीक्ष्य मेने शरदः कृतार्थता ॥९॥

  कपोलेति ॥ पुनः कपोलसंश्लेषि यदवतंसकोत्पलं कर्णोत्पलं तद्विलोचनत्विषा विः भूषयन्तीम् । आभरणस्याप्याभरणमिति भावः । कलमम् । गोपायतीति गोपिकां शालिगोप्त्रीम् । ण्वुल्प्रत्ययः । निरीक्ष्य पाण्डोः सुतेनार्जुनेन शरदः। कृतार्थाया भावकृतार्थता साफल्यम् । शरदः स्वगुणसंपत्सिद्धिनियोगलाभादिति भावः ।'त्वतलोर्गुणवचनस्य पुंवद्भावो वक्तव्यः' । मेनेऽमानि । मन्यतेः कर्मणि लिट् ॥

उपारताः पश्चिमरात्रिगोचरादपारयन्तः पतितुं जवेन गाम् ।
तमुत्सुकाश्चक्रुरवेक्षणोत्सुकं गवां गणाः प्र[२]स्नुतपीवरौधसः ॥१०॥

  उपारता इति ॥ पश्चिमा चासौ रात्रिश्चेति विशेषणसमासः । अपररात्र इत्यर्थः। 'पूर्वा दिक्पश्चिमं नभ:' इत्यादिवदेकदेशिशब्दस्यैकदेशशब्दसामानाधिकरण्यादेकदेशे पर्यवसानम्, न तु पश्चिमं रात्रेरित्येकदेशिसमासः। तद्विधायके पूर्वापरादिसूत्रे पश्चिम- शब्दाग्रहणादतएव 'अहःसर्वैकदेश-'इत्यादिना न समासान्तोऽपि तस्यापि पूर्वापरा- दिसूत्रोक्तसमासविषयत्वादिति । प्रकाशवर्षस्तु-एकदेशिसमासमेवाश्रित्य समासान्तमाह, तन्मृग्यम् । गावश्चरन्त्यत्रेति गोचरो गवां जग्धिस्थानं वनम् । पश्चिमरात्रौ यो गोचरस्तस्मादुपारताः संनिवृत्ता जवेन गां भुवं पतितुं धावितुमपारयन्तोऽशक्नुवन्तः प्रस्नुतपीवरौधसो वत्सस्मरणात्स्रवत्पीनापीनाः । 'ऊधस्तु क्लीबमापीनम्' इत्यमरः । 'ऊधसोऽनङ्' इति स्त्रीग्रहणं कर्तव्यमिति नियमान्नानङादेशः । उत्सुका वत्सेषूत्कण्ठिता गवां गणास्तमर्जुनमवेक्षणोत्सुकं दर्शनलालसं चक्रुः। 'स्वर्गेषुपशुवाग्वज्रादिङ्गेत्रघृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः' इत्युभयत्राप्यमरः । अत्र स्वभावोक्तिरलंकार:- 'स्वभावोक्तिरलंकारो यथावद्वस्तुवर्णनम्' इति लक्षणात् ॥

परीत[३]र्मुक्षावजये जयश्रिया नदन्तमुच्चैःक्षतसिन्धुरोधसम् ।
ददर्श षुष्टिं दधतं स शारदीं सविग्रहं दर्पमिवाधिपं गवाम् ॥ ११ ॥

  परीतमिति ॥ सोऽर्जुनः उक्षावजय उक्षान्तरभङ्गे सति जयश्रिया परीतं वेष्टितमुच्चैर्नदन्तं क्षस्तसिन्धुरोधसं रुग्णसरित्तटं शरदि भवां शारदीं पुष्टिमवयवोमचयं दधतं गवामधिपं महोक्षं सविग्रहं मूर्तिमन्तम् । 'कायो देहः क्लीबपुंसौ शरीरं वर्ष्म विग्रहः' इत्यमरः । दर्पमिवेत्युत्प्रेक्षा। ददर्श ॥

विमुच्यमानैरपि तस्य मन्थरं गवां हिमानीविशदैः कदम्बकैः ।
शरन्नदीनां पुलिनैः कुतूहलं गलद्दुकूलैर्जघनैरिवादधे ॥ १२ ॥