पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
किरातार्जुनीये


जलो योऽर्णवस्तदाभस्तत्सदृशस्त्वमन्यमाकारमभिपन्नः प्राप्त इव स्थित इवेत्युत्प्रेक्षा। तस्य क्षीणजलार्णवाभ इत्युपमासंसृष्टिः ।।

दुःशासनामर्षरजोविकीर्णैरेभिर्विनाथैरिव भाग्यनाथैः ।
केशैः कदर्थीकृतवीर्यसारः कच्चित्स एवासि धनंजयस्त्वम् ॥४७॥

दुःशासनेति ॥ पुनश्च । दुःशासनस्य कर्तुरामर्ष आमर्षणमाकर्षणं स एव रजो धूलिः। मालिन्यहेतुत्वादिति भावः। तेन विकीर्णैर्विक्षिप्तैरतएव विनाथैरिव स्थितवतां युष्माकमसत्त्वप्रायत्वादनाथैरिव ।स्थितैरित्युत्प्रेक्षा । अन्यथा कथमियं दुर्दशेति भावः। किंतु भाग्यनाथैर्दैवमात्रशरणैः । अन्यथा स्वरूपमपि लुप्येतेति भावः । एभिः परिदृश्यमानैः। असंयमितैरिति भावः । केशैः शिरोरुहैः कुत्सितोऽर्थो वस्तु कदर्थः।'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः । 'कोः कत्तत्पुरुषेऽचि' इति कुशब्दस्य कदादेशः । कदर्थीकृतौ गार्ह्यार्थीकृतौ वीर्यसारौ शौर्यबले यस्य स तथोक्तः । इत्थं पूर्वविलक्षणस्त्वं स एव धनंजयोऽसि कश्चित् । 'कच्चित्कामप्रवेदने' इत्यमरः । स एव चेत्त्वं नैवमस्मानुपक्षस इति भावः ॥ अथाप्युपेक्षणे दोषमाह-

स क्षत्रियस्त्राणसहः सतां यस्तत्कार्मुकं कर्मसु यस्य शक्तिः ।
वहन्द्वयीं य[१]द्यफलेऽर्थजाते करोत्यसंस्कारहतामिवोक्तिम् ॥४८॥

स इति ॥ क्षतात्रयत इति क्षत्रं क्षत्रियकुलम्। 'सुपि' इति योगविभागात्कप्रत्ययः पृषोदरादित्वात्पूर्वपदस्यान्त्यलोपः। अथवा क्षदिति क्विबन्तोपपदात्कंप्रत्ययः । क्षत्रे जातः क्षत्रियः । 'क्षत्राद्धः' इति घप्रत्ययः । कर्मणे प्रभवतीति कार्मुकम् । 'कर्मण उकञ्' इत्युकञ्प्रत्ययः । एवं स्थिते वाक्यार्थः कथ्यते । यः सतां साधूनाम् । सहत इति सहः । पचाद्यच् । यस्त्राणस्य सहस्त्राणसहो रक्षणक्षमः स एव क्षत्रियशब्दवाच्यः । तथा यस्य कार्मुकस्य कर्मसु रणक्रियासु शक्तिः । अस्तीति शेषः । तदेव कार्मु- कशब्दवाच्यम् । अत्रैवैतौ शब्दौ मुख्यौ । नान्यत्रेत्यर्थः । एवं स्थिते द्वयीं द्विविधामुक्तिम् । द्वाविमौ क्षत्रियकार्मुकशब्दावित्यर्थः । अफले । पूर्वोक्तावयवार्थशून्ये अर्थजाते। स्वाभिधेयसामान्यजातिमात्र इत्यर्थः ।'जातं जात्योधजन्मसुः इति विश्वः । वहन्वर्तयन् । संस्कारहतामव्युत्पत्तिदूषितामिव करोतीत्युत्प्रेक्षा । तस्मात्त्वमस्मद्रक्षणेनोक्तदोषादात्मानं मोचयस्वेत्यर्थः ॥

अथ त्वद्गुणा अपि नोज्जीवयेयुरित्याह-

वीतौजसः संनिधिमात्रशेषा भवत्कृतां भूतिम[२]पेक्षमाणाः ।
[३]मानदुःखा इव नस्त्वदीयाः सरूपतां पार्थ गुणा भजन्ते ॥४९॥


  1. 'अपि' इति पाठः
  2. 'अवेक्ष्यमाणा' इति पाठः
  3. 'सामान्यदुःखाः' इति पाठः