पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
तृतीय: सर्गः ।


पराक्रमजातान्यपि प्रमृजन्नित्यर्थः। 'अवदानं कर्म वृत्तम्' इत्यमरः । अतएव संप्रतीतिं ख्यातिम् । 'प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः' इत्यमरः । अभूतामविद्यमा- नामिवेत्युत्प्रेक्षा । सतोऽप्यसत्त्वमुत्प्रेक्ष्यते। तन्वन्कुर्वन् । पुनश्चाह्रोऽवशेषो दिनान्तोऽर्क- त्विषामिवायतीनामुत्तरकालानां प्रयामक्षयं दैर्घ्यनाशं कुर्वन्निति श्रौती पूर्णेयमुपमा। अरिनिराकृतस्य कुतश्चिरावस्थानमिति भावः ॥

प्रसह्य योऽस्मासु परैः प्रयुक्तः स्म[१]र्तुं न शक्यः किमुताधिकर्तुम् ।
नवीकरीष्यत्युपशुष्यदार्द्र: स त्वद्विना मे हृदयं निकारः॥४४॥

प्रसह्येति ॥ पुनश्च । परैः शत्रुभिरस्मासु प्रसह्य प्रयुक्त आचरितो यो निकारः परि- भवः केशाकर्षणरूपः स्मर्तुं न शक्यः । अधिकर्तुमनुभवितुं किमुत। यस्य स्मरणमपि दुःसहमनुभवस्तु दुःसह इति किमु वक्तव्यमित्यर्थः । स निकारस्त्वद्विना त्वया विना। 'पृथग्विना-' इत्यादिना पञ्चमी । आर्द्रः सन्कुतश्चिदभिभूतात्पुराणप्रहार इव । त्वद्विरहदुःखात्पुनर्नवीकरिष्यति । नवीभविष्यतीत्यर्थः । उपशुष्यत् । त्वया विना शुष्कमिति भावः । दुःखस्तम्भनं शोषपदार्थों मे हृदयं नवीकरिष्यत्यार्द्रीकरिष्यति । व्रणमिवेति भावः । दुःखितस्य पुनर्दुःखोपचयः प्रशान्तप्रायमपि दुःखहेतुं पुनरुद्धाटय- तीत्यर्थः । अत्र शोषादिविशेषणसाम्याद्व्रणाद्यप्रस्तुतार्थप्रतीतेः समासोक्तिरलंकारः ॥

पुनः प्रकारान्तरेण मन्युमुद्दीपयति प्राप्तः' इत्यादिभिस्त्रिभिः । तत्र वक्ष्यमाणप्रत्य- भिज्ञानहेतुभिर्धनंजयं विशिनष्टि----

प्राप्तोऽभिमानव्यसनादसह्यं दन्तीव दन्तव्यसनाद्विकारम् ।
द्विषत्प्र[२]तापान्तरितोरुतेजाः शरद्धनाकीर्ण इवादिरह्न:॥४५॥

अभिमानस्य व्यसनाद्भ्रम्शात् । 'व्यसनं विपदि भ्रंशे दोषे कामजकोपजे' इत्यमरः । दन्तव्यसनाद्दन्तभङ्गाद्दन्तीवासह्यं विकारं वैरूप्यं प्राप्तः । अतो न प्रत्यभिज्ञायत इति भावः । एवमुत्तरत्राप्यनुसंधेयम् । पुनश्च । द्विषत्प्रतापेन शत्रुतेजसान्तरितं तिरस्कृतमुरु तेजः प्रतापो यस्य स तथोक्तः । अतएव शरद्धनाकीर्णः शरन्मेघच्छन्नोऽह्न आदिः प्रत्यूष इव स्थितः । तद्वदेवाप्रत्यभिज्ञायमान इत्यर्थः । मध्याह्नस्तु मेधावरणेऽपि कथंचित्प्रत्यभिज्ञायत एवेत्याशयेनोक्तमादिरिति ॥

सव्रीडमन्दैरिव निष्क्रियत्वान्नात्यर्थमस्त्रैरवभासमानः ।
यशःक्ष[३]यक्षीणजलार्णवाभस्त्वमन्यमाकारमिवाभिपन्नः ॥४६॥

सव्रीडेति ॥ पुनश्च । निष्क्रियत्वादर्थक्रियाशून्यत्वात्सवीडमन्दैरिव सव्रीडैरतएव मन्दैरपटुभिरिव स्थितैरित्युत्प्रेक्षा । 'मूढाल्पापटुनिर्भाग्या मन्दाः' इत्यमरः । अस्त्रैरत्यर्थं नायभासमानो न प्रकाशमानः । पूर्वं तु नैवमिति भावः। किंतु यशःक्षयाद्धेतोः क्षीण-


  1. 'वक्तुम्' इति पाठः
  2. 'प्रभाघ' इति पाठः
  3. 'क्षयात्' इति पाठ: