पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४९
पञ्चदशः सर्गः।

वल्कलस्य रुचा प्रभया। रोचत इति रुचः शोभमानः।'इगुपध-'इति कः। रुचिरः सुन्दरः। चञ्चूर्यते भृशं चरतीति चञ्चुरः। चरतेर्यङन्तात्पचाद्यच्। 'चरफलोश्च' इति नुमागमः । 'यङोऽचि च' इति यङो लुक् । आचारस्य युद्धव्यवहारस्य चञ्चुरो भृशमाचरितः स मुनिश्चारु यथा तथा चारैश्चक्रादिबन्धैर्गतिविशेषैश्चचार । 'चारः पियालवृक्षे स्याद्गतौ बन्धापसर्पयोः' इति विश्वः । द्व्यक्षरः ॥

स्फुरत्पि[१]शङ्गमौर्वीकं धु[२]नानः स बृहद्धनुः ।
धृतोल्कानलयोगेन तुल्यमंशुमता बभौ ॥३९॥

स्फुरदिति। स मुनिरर्जुनः स्फुरन्ती पिशङ्गी पिशङ्गवर्णा मौर्वी ज्या यस्य तत्तथोक्तम्। 'नधृतश्च' इति कण्प्रत्ययः । बृहद्धनुर्गाण्डीवं धुनानः कम्पयन् । उल्कैवानलस्तेन धृतो योगो येन तेनांशुमतार्केण सूर्येण तुल्यं बभौ । उपमा ॥

पार्थबाणाः पशुपतेरावव्रुर्विशिखावलीम् ।
पयोमुच इवारन्ध्राः सावित्रीमंशुसंहतिम् ॥४०॥

पार्थेति ॥ पार्थबाणा अर्जुनशराः पशुपतेर्विशिखावलीं शरसंघातम् । सवितुरियं सावित्री तामंशुसंहतिं किरणसमूहमरन्ध्रा निबिडाः पयोमुचो मेघा इव । आवव्रु- स्तिरोदधुः ॥

शरवृष्टिं विधूयोर्वीमुदस्तां सव्यसाचिना ।
रुरोध मार्गणैर्मार्गं तपनस्य त्रिलोचनः ॥४१॥

शरेति ॥ त्रिलोचनः शिवः। सव्येन सचते समवैतीति तेन सव्यसाचिनार्जुनेनोद्- स्तांक्षिप्तामुर्वीं महतीं शरवृष्टिं मार्गणैः शरैर्विधूय निरस्य तपनस्य रवेर्मार्गं रुरोधावव्रे॥

तेन व्यातेनिरे भीमा भीमार्जनफलाननाः।
न नानुकम्प्य विशिखाः शिखाधरजवाससः ॥४२॥

तेनेति ॥ तेन शिवेन भीमा भयंकरास्तथा भियो भयस्य मार्जनं निरासस्तदेव फलं प्रयोजनं येषां तान्याननान्यग्राणि येषां ते भीमार्जनफलाननाः । तथा शिखाधरा मयूरास्तेषु जातानि शिखाधरजानि बर्हाणि तानि वासांसीव वासांसि पक्षा येषां ते शिखाधरजवाससः । मयूरपक्षिण इत्यर्थः । विशिखा बाणा अनुकम्प्य कृपां कृत्वा न व्यांतेनिर इति न । किं त्वनुकम्प्यैवेत्यर्थः । अनुजिघृक्षुत्वादिति भावः । संभाव्यनिषेधने द्वौ प्रतिषेधावित्युक्तम् । शृङ्खलायमकम् ॥

द्युवियद्गामिनी तारसंरा[३]वविहतश्रुतिः ।
हैमीषुमाला शुशुभे विद्युतामिव संहतिः ॥४३॥


  1. 'पिङ्गल' इति पाठः
  2. 'धुन्वानः' इति पाठः
  3. 'विराव' इति पाठः