पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४८
किरातार्जुनीये

स्थितां चमूं पुरोऽग्रे स्थितः सूर्यः पुरःसूर्यः । रणोपमानमेषः। तस्मादपावृत्तां परावृत्तां छायां महातरुरिव बभार । छायां तरुरिवात्मैकशरणां तां चमूं न' मुमोचेत्यर्थः ॥

मुञ्चतीशे शराञ्जिष्णौ पिनाकस्वनपूरितः ।
दध्वान ध्वनयन्नाशाः स्फुटन्निव धराधरः॥३४॥

  मुञ्चतीति ॥ ईशे हरे कर्तरि जिष्णावर्जुने विषये शरान्मुञ्चति सति पिनाकस्य शिवकार्मुकस्य स्वनेन ध्वनिना पूरितो धराधर इन्द्रकीलः स्फुटन्निव विदीर्यमाण इवेत्युत्प्रेक्षा । आशा दिशो ध्वनयञ्शब्दयुक्ताः कुर्वन्दध्वान शब्दमकरोत् । 'दिशस्तु ककुभः काष्ठा आशाश्व हरितश्च ताः' इत्यमरः ॥

तद्गणां ददृशुर्भीमं चित्रसंस्था इवाचलाः ।
विस्मयेन तयोर्युद्धं चित्रसंस्था इवाचलाः ॥३५॥

  तदिति॥भीमं तयोर्हरपाण्डवयोस्तत्प्रसिद्धं युद्धं गणाः प्रमथाश्चित्रसंस्थाश्चित्राकारा अचलाः शैला इव । तथा चित्र आलेख्ये संस्था स्थितिर्येषां ते चित्रसंस्थाश्चित्रलिखिता इवाचला आश्चर्यवशान्निश्चलाः सन्तो विस्मयेन ददृशुः ॥

परिमोहयमाणेन शिक्षालाघवलीलया।
जैष्णवी विशिखश्रेणी परिजह्रे पिनाकिना ॥३६॥

  परीति ॥ शिक्षालाघवलीलयाभ्यासपाटवातिशयेन हेतुना परिमोहयमाणेन व्यामोहयता। 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति परस्मैपदेप्राप्ते 'न पादमि--' इत्यादिना तत्प्रतिषेधादात्मनेपदं शानच् । 'णेर्विभाषा' इति कृत्स्थस्य नस्य वा णत्वम् । पिनाकिना हरेण जिष्णोरर्जुनस्येयं जैष्णवी विशिखश्रेणी बाणसंघातः परिजह्रे निरस्ता ॥

अवद्यन्पत्रिणः शंभोः सायकैरवसायकैः।
पाण्डवः परिचक्राम शिक्षया रणशिक्षया ॥३७ ॥

  अवद्यन्निति ॥ पाण्डवोऽर्जुनोऽवसायकैरवसानकरैः। स्यतेर्ण्यन्ताण्ण्वुल्प्रत्ययः । सायकैर्बाणै: शंभोः पत्रिणः शरानवद्यन्खण्डयन् । द्यतेः शतृप्रत्ययः । 'ओतः श्यनि' इत्योकारलोपः। शिक्षया शक्तुं प्रभवितुमिच्छया । उत्साहेनेत्यर्थः । रणे शिक्षयाभ्यासेन च परिचक्राम । उत्साहनैपुण्याभ्यां चचारेत्यर्थः ॥

चारचुञ्चुश्चिरारेची चञ्चच्चीररुचा रुचः ।
चचार रुचिरश्चारु चारैराचारचञ्चुरः ॥३८॥

  चारैरिति ॥ चारैर्गतिविशेषैर्वित्त इति चारचुञ्चु: । 'तेन वित्तश्चुञ्चुण्चणपौ' इति चुञ्चुप्प्रत्ययः । चिरमारेचयति रिक्तीकरोति शत्रूनिति चिरारेची । चञ्चतश्चलतश्चीरस्य