पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
किरातार्जुनीये

शय्य शयित्वा । 'अयङियक्ङिति' इत्ययङादेशः । अशिवैरमङ्गलैः शिवारुतैः क्रोष्टु- वासितैः । ‘शिव हरीतकी क्रोष्टा शमी नद्यमलक्युभे' इति वैजयन्ती । निद्रां जहासि । अद्येति शेषः ॥

पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यदेतदन्धसा ।
तदद्य ते वन्यफलाशिनः परं परैति कार्श्यम् कार्श्यम् यशसा समं वपुः ॥३९॥

 पुरेति ॥ हे नृप, यदेतत्पुरोवर्ति वपुः पुरा द्विजातिशेषेण द्विजभुक्तावशिष्टेनान्ध- सान्नेन । 'भिस्सा स्त्री भक्तमन्धोऽन्नम्' इत्यमरः । रमणीयस्य भावो रामणीयकं मनो- हरत्वमुपनीतं प्रापितम् । नयतेर्द्विकर्मकत्वात्प्रधाने कर्मणि क्तः । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इति वचनात् । अद्य वन्यफलाशिनस्ते तव तद्वपुर्यशसा सम- परमतिमात्रं कार्श्यं परैति प्राप्नोति। उभयमपि क्षीयत इत्यर्थः। अत्र सहोक्तिरलंकारः। तदुक्तं काव्यप्रकाशेः-‘सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम्' इति ॥

अनारतं यौ मणिपीठशायिनावरञ्जयद्राजशिरःस्रजां रजः ।
निषीदतस्तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ॥४०॥

 अनारतमिति ॥ अनारतमजस्रं मणिपीठशायिनौ मणिमयपादपीठस्थायिनौ यौ चरणौ राजाशिरःस्रजां नमद्भूपालमौलिस्रजां रजः परागोऽरञ्जयत्, तौ ते चरणौ मृगैर्द्विजैश्च तपस्विभिरालूनशिखेषु च्छिन्नाग्रेषु बर्हिषां कुशानाम्।'बर्हिः कुशहुताशयोः' इति विश्व:। वनेषु निषीदतस्तिष्ठतः ॥

ननु सर्वप्राणिसाधारण्यामापदि का परिदेवनेत्यत्राह-

द्विषन्निमित्ता यदियं दशा ततः समूलमुन्मूलयतीव मे मनः ।
परैरपर्यासितवीर्यसम्पदां पराभवोऽप्युत्सव एव मानिनाम् ॥४१॥

 द्विषदिति ॥ यद्यतः कारणादियं दशावस्था।'दशा वर्ताववस्थायाम्' इति विश्वः । द्विषन्तो निमित्तं यस्याः सा । 'द्विषोऽमित्रे' इति शतृप्रत्ययः । अतो मे मनः समूलं साशयमुन्मूलयतीवोत्पाटयतीव । दैविकी त्वापन्न दुःखायेत्याह-परैरिति । परै:, शत्रुभिरपर्यासितापर्यावर्तिता वीर्यसंपद्येषां तेषां मानिनां पराभवो विपदप्युत्सव । एवेति वैधर्म्येणार्थान्तरन्यासः । मानहानिर्दुःसहा, न त्वपिदिति भावः ॥

विहाय शान्तिं नृप धाम तत्पुनः प्रसीद संधेहि वधाय विद्विषाम् ।
व्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ॥४२॥

 विहायेति ।। हे नृप, शान्तिं विहाय तत्प्रसिद्धं धाम तेजो विद्विषां वधाय पुनः संधेह्यङ्गीकुरु प्रसीद । प्रार्थनायां लोट्। ननु शमेन कार्यसिद्धौ किं क्रोधेनेत्यत्राह- व्रजन्तीति । निःस्पृहा मुनयः शत्रूनवधूय निर्जित्य शमेन क्रोधवर्जनेन सिद्धिं व्रजन्ति । भूभृतस्तु न । कैवल्यकार्यवद्राजकार्यं न शान्तिसाध्यमित्यर्थः ॥ ।