पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३५
चतुर्दशः सर्गः।


न्निव।अन्यथा सा कथं न दृश्यत इति भावः। तथानिलं वायुमाकुलयन्निषुभिरन्तराल आघूर्णयन्निव । तस्य तथा गतिविधातादिति भावः । सशैलां क्षितिं चलयन्निव कम्पयन्निव । तथा संक्षोभादिति भावः । चचाल गतिमकरोत् । सर्वत्रेवशब्द उत्प्रेक्षायाम् ॥

विमुक्तमाशंसितशत्रुनिर्जयैरनेकमेकावसरं वनेचरैः ।
[१]निर्जघानायुधमन्तरा शरैः क्रियाफलं काल इवातिपातितः ॥५१॥

  विमुक्तमिति ॥ आशंसितः काङ्क्षितः शत्रुनिर्जयो यैस्तैः । अहमहमिकया शत्रुं विजिगीषद्भिरित्यर्थः । वनेचरैरेकावसरं समकालम् । अत्यन्तसंयोगे द्वितीया । विमुक्तं प्रयुक्तमनेकं बहु आयुधम् । जातावेकवचनम् । सोऽर्जुनः क्रियाफलमतिपा- तितोऽतिक्रान्तः काल इव । अतिक्रान्तकालस्य कर्मणो निष्फलत्वादिति भावः । अन्तरा मध्ये शरैर्निजघान ॥

गतैः परेषामविभावनीयतां निवारयद्भिर्विपदं विदूरगैः।
भृशं बभूवोपचितो बृहत्फलैः शरैरुपायैरिव पाण्डुनन्दनः ॥५२॥

  गतैरिति ॥ पाण्डुनन्दनोऽर्जुनः परेषामविभावनीयतां लघुप्रयोगादन्यत्र गूढप्रयोगा- च्चादृश्यतामप्रकाश्यतां च गतैर्विपदमनर्थं निवारयद्भिर्विदूरगैर्दूरलक्ष्यगैः परमण्डल- प्रविष्टैश्च बृहत्फलैरायताग्रैर्महालाभैश्च । 'फलं बाणाग्रलाभयोः इति शाश्वतः। शरैरुपायैः सामादिभिरिव भृशमुपचितः प्रवृद्धो बभूव । अत्र शब्दमात्रसाधर्म्यात्- प्रकृतात्प्रकृतश्लेषः । उपमेति केचित् ॥

दिवः पृथिव्याः ककुभां नु मण्डलात्पतन्ति बिम्बादु[२]त तिग्मतेजसः।
सकृद्विकृष्टादथकार्मुकान्मुनेः शराः शरीरादिति तेऽभिमेनिरे ॥५३॥

  दिव इति ॥ शरा दिवोऽन्तरिक्षात्पृथिव्या भूगोलाद्वा ककुभां मण्डलान्नु दिशां मण्डलाद्वोत तिग्मतेजसोऽर्कस्य बिम्बान्मण्डलाद्वाथवा सकृद्विकृष्टात्कार्मुकाद्वा मुनेः शरीराद्वा पतन्तीति ते गणा अभिमेनिरे ज्ञातवन्तः।अन्यथा कथममी विश्वमन्तर्धाय शराः संभाव्यन्त इति भावः । अत्र सर्वतः शरसंपातदर्शनात्संभावनया पृथिव्यादीनामन्यतमस्यापादानत्वोत्प्रेक्षा । सा च प्रतीयमाना व्यञ्जकाप्रयोगात् । नुशब्दादयस्तु संशये ॥

गणाधिपानामविधाय निर्गतैः परासुतां मर्मविदारणैरपि ।
जवादतीये हिमवानधोमुखैः कृतापराधैरिव तस्य पत्रिभिः ॥५४॥

  गणेति ॥ मर्मविदारणैरपि । मर्मस्थानान्येव विदारयद्भिरपीत्यर्थः। गणाधिपानां


  1. 'मुनिर्जघान' इति पाठः
  2. 'इव' इति पाठः