पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३२
किरातार्जुनीये


सन् एवंभूते धैर्य इव निषण्णं स्थितं प्रकृतौ स्वभावे स्थितमपि । निर्विकारमपीत्यर्थः। अत एवालङ्घनीयमनतिक्रमणीयमत एव निवातनिष्कम्पं वाताभावान्निश्चलम् । 'निवातावाश्रयावातौ' इत्यमरः । आपगापतिं समुद्रमिव स्थितम् ॥

उपेयुषीं बिभ्रतमन्तकद्युतिं वधाददूरे पतितस्य दं[१]ष्ट्रिणः ।
पुरः स[२]मावेशितसत्पशुं द्विजैः पतिं पशूनामिव हूतमध्वरे ॥३८॥

  उपेयुषीमिति ॥ पुनश्च । अदूरे समीपे पतितस्य दंष्ट्रिणो वराहस्य । ब्रीह्यादित्वादि- निप्रत्ययः । बधाद्धेतोरुपेयुषीं प्राप्तामन्तकस्येव यमस्येव द्युतिस्तां विभ्रतं धारयन्तम् । तथा च द्विजैर्ब्राह्मणैरध्वरे यज्ञे । 'यज्ञः सवोऽध्वरो यागः' इत्यमरः । हूतमाहूतं पुरोऽग्रे समावेशितः स्थापितः सत्पशुर्यज्ञीयपशुर्यस्य तं पशूनां पतिं रुद्रमिव स्थितम् ॥

निजेन नीतं विजितान्यगौरवं गभीरतां धैर्यगुणेन भूयसा ।
वनोदयेनेव धनोरुवीरुधा समन्धकारीकृतमुत्तमाचलम् ॥३९॥

  निजेनेति॥पुनश्च।निजेन नैसर्गिकेण भूयसा बहुलेन धैर्यमेव गुणस्तेन विजितमन्येषां गौरवं गाम्भीर्यं यस्मिन्कर्मणि तथा गभीरतां दुरवगाहत्वं नीतम् । अत एव घनाः सान्द्रा उरवश्च महत्यो वीरुधो लताश्च यस्मिम्स्तेन घनोर्रुवीरुधा वनोदयेनारण्यप्रादुर्भावेन समन्धकारीकृतं दुरवगाहीकृतमुत्तमाचलमिव स्थितम् । समन्ततोऽन्धकारो यस्य स इति विग्रहः ॥

महर्षभस्कन्धमनूनकंधरं बृ[३]हच्छिलावप्रघनेन यक्षसा।
समुज्जिहीर्षुम् जगतीं महाभरां महावराहं महतोऽर्णवादिव ॥४०॥

  महर्षभेति ॥ महर्षभस्य महावृषभस्य स्कन्ध दव स्कन्धावंसौ यस्य तम् । उपमानपूर्वपदत्वादुत्तरस्कन्धलोपः । 'ऋषभो वृषभो वृषः' इत्यमरः । 'स्कन्धो भुजशिरोंऽसोऽस्त्री' इत्यमरः । अनूनकंधरं स्थूलग्रीवम् । 'अथ ग्रीवायां शिरोधिः कंधरेत्यपि' इत्यमरः। बृहच्छिलावप्रं महाशिलातटं तद्वद्धनेन कठिनेन वक्षसोपलक्षितम् । महाभरां दुष्टैरतिभारवतीं जगतीं महीं समुज्जिहीर्षुम् दुष्टराजकार्णवात्समुद्धर्तुमिच्छुम् । अत एव महत्तोऽर्णवाज्जगतीं समुज्जिहीर्षमुक्तविशेषणविशिष्टं च महावराहमिव स्थितम् । अर्थ- साधर्म्यादियमुपमा, न श्लेषः । शब्दमात्रसाधर्म्येण तस्य विधानादिति रहस्यम् ॥

हरिन्मणिश्याममुदग्रविग्रहं प्रकाशमानं परिभूय देहिनः ।
मनुष्यभावे पुरुषं पुरातनं स्थितं जलादर्श इवांशुमालिनम् ॥४१॥

  हरिदिति ॥ पुनश्च । हरिन्मणिश्यामं मरकतमणिश्यामलमुदग्रविग्रहमुदारमूर्ति देहिनः सत्त्वान्परिभूय तिरस्कृत्य प्रकाशमानम् । जलमेवादर्शो मुकुरस्तसिन्नंशुमालिनं


  1. 'पोत्रिणः' इति पाठः
  2. 'समादेदित' इति पाठः
  3. 'महच्छिला' इति पाठः