वत्यः। तथा अपिधायाच्छाद्य रेचिता रिक्तीकृता मुक्ताः क्षणं निम्नतया गाम्भीर्येण भे-
जिर इव प्राप्ता इवेत्युत्प्रेक्षा । सैन्यैर्या भुवो व्याप्तास्ता उत्तानाः प्रतीयन्ते । तैर्मुक्तास्ता
एव निम्नाः प्रतीयन्त इत्यर्थः ।।
पृथूरुपर्यस्तबृहल्लताततिर्जवानिलाघूर्णितशालचन्दना । |
पृथ्विति ॥ पृथुभिर्विशालैरूरुभिः सक्थिभिः पर्यस्ताः क्षिप्ता बृहत्यो लताततयो यया सा जवानिलेन वेगमारुतेनाघूर्णिता भ्रमिता शाला: सर्जतरवश्चन्दनानि च यया सा। 'प्राकारवृक्षयोः शाल: शालः सर्जतरुः स्मृतः' इति शाश्वतः। परितः सर्वत्र प्रसारिणी प्रसरणशीला गणाधिपानां संहतिः समूहो वनान्यवाञ्चि-- नीव चकारेत्युत्प्रेक्षा । अवाञ्चत्यधोभवति । अवपूर्वादञ्चते: क्विप् । स्यादवाङप्यधोमुखः' इत्यमरः॥
अथाष्टभिः श्लोकैरर्जुनं विशेषयन्गणानां तदभियोगमाह-तत इत्यादिना ।
ततः सदर्पं प्रतनुं तपस्यया मदस्त्रुतिक्षाममिवैकवारणम् । |
ततः सदर्पं सगर्वं सौन्तःसारं तपस्यया तपश्चर्यया । तपस्यतेः क्यजन्तात्त्रियाम- प्रत्यये टाप् । प्रतनं कृशमत एव मदस्रुत्या मदक्षरणेन क्षामं कृशम् । 'क्षायो मः' इति निष्ठातकारस्य मकारः । एकवारणमेकाकिनं गजमिव स्थितमित्युपमा । पुनः । भूभृतां राज्ञां निधनाय नाशाय परिज्वलन्तं तेजस्विनमत एवाशा दिशो दहन्तं जातवेदसम- ग्निमिव स्थितमित्युपमालंकारः । 'कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात्' इत्यमरः ।।
अनादरोपात्तधृतैकसायकं जयेऽनुकूले सुहृदीव सस्पृहम् । |
अनादरेति ॥ पुनश्च । अनादरेणावगणनयोपात्तो निषङ्गादुद्धृतो धृतश्चैकः सायको येन तं तथानुकूले सुहृदीव जये सस्पृहं जयमिच्छन्तमित्यर्थः । पुनश्च । अपूर्णो न्यूनः प्रतिकारो बाणाहरणप्रत्यर्पणरूपो यस्य सः । अत एव पेलेवो लघुस्तस्मिन्नपूर्णप्रति- कारपेलवे बलोदधौ सेनासमुद्रे शनैरसंभ्रमेण नयने दृष्टी निवेशयन्तमिति वीरस्वभावोक्तिः । बलमुदधिरिवेत्युपमितसमासः। 'पेषवासवाहूनधिषु च' इत्युदकस्यो- दादेशः ॥
निषण्णमापत्प्रतिकारकारणे शरासने धैर्य इवानपायिनि । |
निषण्णमिति ॥ पुनश्च । आपदां प्रतिकारस्य कारणे साधनेऽनपायिनि स्थिरे शरा-
- ↑ 'विद्विषाम्' इति पाठः