पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१७
त्रयोदशः सर्गः।


  ननु शरलोभान्मिथ्याभियुज्यस इत्याह-~

ना[१]भियोक्तुमनृतं त्वमिष्यसे कस्तपस्विविशिखेषु चादरः ।
सन्ति भूभृति शरा हि नः परे ये पराक्रमवसूनि वज्रिणः ॥५८॥

  नेति ॥ त्वमनृतं मिथ्याभियोक्तुमभ्याख्यातुम् । ब्रूञोऽर्थग्रहणाद्विकर्मकता । 'मिथ्याभियोगोऽभ्याख्यानम्' इत्यमरः । अस्माभिरिति शेषः । नेष्यसे नेष्टोऽसि । कुतः। तपस्वी मुनिः शोच्यश्च । 'मुनिशोच्यौ तपस्विनौ' इति शाश्वतः । तस्य विशिखेषु क आदरः कास्था । न काचिदित्यर्थः । हि यस्यान्नोऽस्माकं भूभृति शैले परेऽन्येऽपि शराः सन्ति ये शरा वज्रिणः शक्रस्य पराक्रमवसूनि पराक्रमधनानि । शौर्यसर्वस्वभूता इत्यर्थः । वज्रिग्रहणाद्वज्रादप्यतिरिच्यन्त इति सूच्यते । अत्र शरेषु पराक्रमसाधनेषु पराक्रमरूपेण वस्तु व्यज्यते ॥

  अथ ते शरापेक्षा चेत्तर्हि तथोच्यतामित्याह-

मार्गणैरथ तव प्रयोजनं ना[२]थसे किमु पतिं न भूभृतः ।
त्वद्विधं सुहृदमेत्य सोऽर्थिनं किं न यच्छति विजित्य मेदिनीम् ॥५९॥

  मार्गणैरिति ॥ अथोते तव मार्गणैः शरैः प्रयोजनं कृत्यं तर्हि भूभृतो गिरेः पतिं प्रभुं किमु न नाथसे किमिति न याचसे। 'नाधृ नाथृ याच्ञोपतापैश्वर्याशीःयु' इति धातो- र्लट् । न च याच्ञाभङ्गशङ्काकार्येत्याह-त्वदिति। सोऽस्मत्स्वामी तवेव विधा प्रकारो यस्य तं त्वद्विधं त्वादृशम् । महानुभावमित्यर्थः । तथापि सुहृदं मित्राभूतमर्थिनमेत्य लब्ध्वा मेदिनीं विजित्य न यच्छति न ददाति किम् । किं तु दास्यत्येव । किं पुनः शरानिति भावः॥

  यदुक्तम् 'त्वद्विधम्' इत्यादि तत्रोपपत्तिमाह-

तेन सूरिरुपकारिताधनः कर्तुमिच्छति न याचितं वृथा ।
सीदतामनुभवन्निवार्थिनां वेद यत्प्रणयभङ्गवेदनाम् ॥६०॥

  तेनेति ॥ तेन कारणेन सूरिर्विद्वानत एवोपकारिताधन उपकारकत्वमात्रधनः स किरातभूपतिर्याचितं याच्ञां वृथा व्यर्थं कर्तुं नेच्छति । कुतः । यद्येन कारणेन सीदतां क्लिश्यतामर्थिनां प्रणयभङ्गवेदनां याच्ञाभङ्गदुःखं स्वयमनुभवन्निव वेद वेत्ति । अतो न वैफल्यशङ्का कार्येत्यर्थः ॥

  ननु स्वयं ग्राहिणः किं याच्ञादैन्यं तत्राह---

शक्तिरर्थपतिषु स्वयंग्रहं प्रेम कारयति वा निरत्ययम् ।
कारणद्वयमिदं निरस्यतः प्रार्थनाधिकबले विपत्फला ॥६१ ॥


  1. 'नानुयोक्तुं' इति पाठः
  2. 'याचसे' इति पाठः