स प्रयुज्य तनये महीपतेरात्मजातिसदृशीं किलानतिम् । |
स इति ॥ स वनेचरो महीपतेस्तनये राजपुत्रेऽर्जुन आत्मजातिसदृशीं किरातजात्यनुरूपां किल । किलेति जातेरलीकतां दर्शयति । यतः। परमार्थतः प्रथम एव सः । आनतिं प्रणतिं प्रयुज्य सान्त्वपूर्वं सामपूर्वकम् । 'साम सान्त्वमुभे समे' इत्यमरः। अभि- नीतिहेतुकं प्रिययुक्तिहेतुकं वचः। इत्थं वक्ष्यमाणप्रकारेण वक्तुमुपचक्रम उपक्रान्तवान्।
तत्र तावश्चतुर्भिः सान्त्वमाह-
शान्तता विनययोगि मानसं भूरिधाम विमलं तपः श्रुतम् । |
शान्ततेति । शान्तता बहिरनौद्धत्यं ते तव विनययोग्यनौद्धत्ययुक्तं मानसं कर्म प्राह नु ब्रूते खलु । तथा भूरि बहु धाम तेजो यस्मिंस्तत्तपः कर्तृ विमलं संप्रदायशुद्धं श्रुतं प्राह । किं च । द्यौर्दिवं वौको येषां तेषां दिवौकसां देवानाम् । पृषोदरादित्वात्साधुः। 'दिवं स्वर्गेऽन्तरिक्षे च' इति विश्वः । सदृशी तुल्याकृतिर्मूर्तिरवदातं शुद्धमन्ववायं वंशं प्राह । 'वंशोऽन्ववायःसंतानः' इत्यमरः । शान्त्यादिभिर्लिङ्गैर्विनयादयोऽनुमीयन्ते। अन्यथा तदसंभवादिति भावः ॥
दीपितस्त्वमनुभावसंपदा गौरवेण लघयन्महीभृतः। |
दीपित इति ॥ मुनिरपि । ऐश्वर्यरहितोऽपीत्यर्थः । अनुभावसंपदा प्रभावातिशयेन दीपितः प्रकाशितः । 'अनुभावः प्रभावे च' इत्यमरः । गौरवेण महत्तया महीभृतो राज्ञो लघयंल्लघूकुर्वन् । त्वमिहाद्रौ । शतमन्योरिदं शातमन्यवमैन्द्रम् । 'तस्येदम्' इत्यण्प्रत्ययः। 'शतमन्युर्दिवस्पतिः' इत्यमरः । अधिपतेः कर्माधिपत्यं त्रैलोक्यरक्षाधिकारम् । ब्राह्मणादित्वात्ष्यञ्प्रत्ययः । कारयन्निव । इन्द्रेणेति शेषः । राजसे तस्याप्युपजीव्य इति प्रतीयसे । स्वमहिम्नेत्यर्थः ।
तापसोऽपि विभुतामुपेयिवानास्पदं त्वमसि सर्वसंपदाम् । |
तापस इति । विभुतां प्रभावमुपेयिवानुपगतः । अतएव तापसोऽपि त्वं सर्वसंप- दामास्पदं स्थानमसि । 'आस्पदं प्रतिष्ठायाम्' इति निपातः। विभुतामेव समर्थयते- तथाहि भवतस्तव जनैर्विनापि । एकाकिनोऽपीत्यर्थः । सचिवैरन्वितस्येवामात्या- दियुक्तस्येव द्युतिस्तेजो दृश्यते । अतः सर्वसंपदामास्पदत्वं युक्तमित्यर्थः ।।
विस्मयः क इव वा जयश्रिया नैव मुक्तिरपि ते दवीयसी। |