पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
प्रथमः सर्गः ।

वत्सु विषये । 'अस्मायामेधा-' इत्यादिना विनिप्रत्ययः । मायिनो मायावन्तः । व्रीह्या- दित्वादिनिप्रत्ययः । न भवन्ति । अत्रैवार्थान्तरं न्यस्यति–प्रविश्येति । शठा अपकारिणो धूर्तास्तथाविधानकुटिलानसंवृताङ्गानवर्मितशरीरान्निशिता इषव इव प्रविश्य प्रवेशं कृत्वात्मीया भूत्वा घ्नन्ति हि । 'आर्जवं हि कुटिलेषु न नीतिः' इति भावः ॥

 न च लक्ष्मीचाञ्चल्यादयमनर्थागमः, किंतु स्वोपेक्षादोषमूलत्वादित्याशयेनाह----

गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां न[१] राधिपः ।
परैस्त्वदन्यः क इवापहारयेन्मनोरमामात्मवधूमिव श्रियम् ॥३१॥

 गुणेति ॥ अनुरक्तसाधनोऽनुकूलसहायवान् । उक्तं च कामन्दकीये-'उद्योगाद्- निवृत्तस्य सुसहायस्य धीमतः । छायेवानुगता तस्य नित्यं श्रीः सहचारिणी ॥' इति। कुलाभिमानी क्षत्रियत्वाभिमानी कुलीनत्वाभिमानी च त्वदन्यस्त्वत्तोऽन्यः ।'अन्यारात्-' इत्यादिना पञ्चमी । क इव नराधिपो गुणैः संध्यादिभिः सौन्दर्यादिभिश्चानुरक्ता- मनुरागिणीं कुलजां कुलक्रमादागतां कुलीनां च मनोरमां श्रियामात्मवधूमिव स्वभार्यामिव । 'वधूर्जाया स्नुषा स्त्री च' इत्यमरः । परैः शत्रुभिरन्यैश्चापहारयेत् । स्वयमेवापहारं कारयेदित्यर्थः । कलत्रापहारवल्लक्ष्म्यपहारोऽपि राज्ञा मानहानिकर- त्वादनुपेक्षणीय इति भावः ॥

 अथ दशभिः कोपोद्दीपनं करोति---

भवन्तमेतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्मनि ।
कथं व मन्युर्ज्वलयत्युदीरितः शमीतरुं शुष्कमिवाग्निरुच्छिखः ॥३२॥

 भवन्तमिति ॥ हे नरदेव नरेन्द्र, एतर्हीदानिम्। अस्मिन्नापत्कालेऽपीत्यर्थः । 'एतर्हि संप्रतीदानीमधुना सांप्रतं तथा' इत्यमरः । 'इदमोर्हिल्’-इति र्हिल्प्रत्ययः ।'एते- तौरथोः' इत्येतादेशः। आपदमेवाह-मनस्विगर्हिते शूरजनजुगुप्सिते वर्त्मनि मार्गे विवर्तमानम्। शत्रुकृतां दुर्दशामनुभवन्तमित्यर्थः । भवन्तं त्वामुदीरित उद्दीपितो मन्युः क्रोधः। शुष्कं नीरसम्। 'शुषः,कः' इति निष्ठातकारस्य ककारः । शमी चासौ तरुश्चेति विशेषणसमासः । तम् । शमीग्रहणं शीघ्रज्वलनस्वभावात्कृतम् । उच्छिख - उद्गतज्वालः । ‘घृणिज्वाले अपि शिखे' इत्यमरः । वह्निरिव । कथं न ज्वलयतिं । ज्वलयितुमुचितमित्यर्थः । 'मितां ह्रस्वः' इति ह्रस्वः ॥

 नन्वन्तःशत्रुत्वादयं क्रोधस्त्याज्य एवेत्याशंक्याह---

अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः ।
अमर्षशून्येन ज[२]नस्य जन्तुना न[३]जातहार्देन न विद्विषादरः ॥३३॥

 अवन्ध्येति ॥ अवन्ध्यः कोपो यस्य तस्यावन्ध्यकोपस्यात एवापदा विहन्तुः । निग्रहा-