पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०९
त्रयोदशः सर्गः।


स वृषध्वजसायकावभिन्नं जयहेतुः प्रतिकायमेषणीयम् ।
लघु साधयितुं शरः प्रसेहे विधिनेवार्थमुदीरितं प्रयत्नः ॥२८॥

  स इति ॥ जयहेतुः स शरो वृषध्वजसायकावभिन्नं शिवशरविद्धमेषणीयम् । वेद्धुमिति शेषः । इषेरिच्छार्थादनीयर् प्रत्ययः । प्रतिकायम् । प्रतिपक्षमिति यावत् । विधिना विधिवाक्येनोदीरितं फलसाधनतया प्रतिपादितमर्थं यागादिकं प्रयत्नः पुरुषव्यापार इव । लघ्वक्लेशेन यथा तथा साधयितुम् । स्वार्थणिजन्तात्तुमुन् । प्रसेहे शशाक । उपमालंकारः।

अविवेकवृथाश्रमाविवार्थं क्षयलोभाविव संश्रितानुरागम् ।
विजिगीषुमिवानयप्रमादाववसादं विशिखौ विनिन्यतुस्तम् ॥२९॥

  अविवेकेति ॥ अविवेकोऽन्तरानभिज्ञत्वं वृथाश्रमो निष्फलप्रयासस्तावर्थं धनमिव अस्थानविनियोगहेतुकत्वादनयोर्धनहानिकरत्वमिति भावः । क्षयोऽनुपचयो लोभो- ऽदातृत्वं तौ संश्रितानामनुजीविनामनुरागमिव । अकिंचित्करे स्वामिन्यनुरागस्थानव- स्थानादिति भावः । अनयो दुर्नीतिः प्रमादोऽनवधानता तौ विजिगीषुमिव । रन्ध्रभूयिष्ठस्य जयासिद्धेरिति भावः । विशिखौ शिवार्जुनबाणौ तं वराहमवसादं करणशैथिल्यं विनिन्यतुर्नीतवन्तौ । नयतिद्विकर्मकः । मालोपमेयम् ॥

अथ दी[१]र्घतमं तमः प्रवेक्ष्यन्सहसा रुग्णरयः स संभ्रमेण ।
निपतन्तमिवोष्णरश्मिमुर्त्यां वलयीभूततरुं धरां च मेने ॥३०॥

  अथेति ॥अथ स वराहो दीर्घतमं तमो दीर्घनिद्रां प्रवेश्यन्। मरिष्यन्नित्यर्थः। सहसा झटिति रुग्णरयो भग्नवेगः संभ्रमेण भ्रान्त्या ।'संभ्रमो भ्रान्तिहावयोः'इति विश्वः। उष्णरश्मिमुर्व्यां| भूमौ निपतन्तमिव मेने । धरां च वलयीभूता मण्डलीभूतास्तरवो यस्यास्तां तथा मेने । तथा बभ्रामेत्यर्थः । स्वभावोक्तिरलंकारः ॥

स गतः क्षितिमुष्णशो[२]णितार्द्र: खुरदंष्ट्राग्रनिपातदारिताश्मा ।
असुभिः क्षणमीक्षितेन्द्रसूनुर्विहितामर्षगुरुध्वनिर्निरासे ॥ ३१ ॥

  स इति ॥ क्षितिं गतः क्षितौ पतित उष्णेन प्रत्यग्रत्वाच्छोणितेनार्द्र: प्लुतः खुराणां दंष्ट्रयोश्चाग्राणां निपातेनाघातेन दारिताश्मा पाटितपाषाणः।किंच।क्षणमीक्षितेन्द्रसूनुः। स्वार्थविघतरोषादिति भावः । अत एव विहितः कृतोऽमर्षगुरुः क्रोधोद्धत्तो ध्वनिः क्रन्दितं येन स तथोक्तः स वराहोऽसुभिः प्राणैर्निरासे निरस्तः । त्यक्त इत्यर्थः । अस्यतेः कर्मणि लिट् । इयं च स्वभावोक्तिः ।


  1. 'दीर्घतरं तम: प्रतिक्षन्' इति पाठ:
  2. 'शोणितार्द्राम्' इति पाठः