चरैर्भयेन विप्लुतं विह्वलं यथा तथेक्षितः सन् । अपां संबन्धि वेग आपः । अपां समूहो
वापम् । आपेन गच्छतीत्यापगा नदी ताम् । गृह्णातीति ग्राहो जलग्राहः। जलचर इति
यावत्।'जलचरे' इति वक्तव्याद्विभाषया ग्रह इति पाप्रत्ययः। स इव। जगतीं भूमिम्।
'जगती विष्टपे मह्यां वास्तुच्छन्दोविशेषयोः' इति वैजयन्ती। जगाहे विवेश ।
अन्तर्हित इत्यर्थः॥
अथार्जुनबाणप्रयोगमाह-
सपदि प्रियरूपपर्वरेखः सितलोहाग्रन[१]खः खमाससाद । |
सपदीति । सपदि शिवबाणप्रयोगसमय एव प्रिया रूपमाकृतिः पर्वाणि ग्रन्थयो रेखा रचनाश्च यस्य सः । अङ्गुलिपक्षे पर्वरेखाः प्रसिद्धाः । लोहाग्रमय:फलं तन्नख- मिवेत्युपमितसमासः । सितं लोहाग्रनखं यस्य सः । कुपितस्यान्तकस्य मृत्योर्या तर्जन- स्याङ्गुलिस्तर्जनाङ्गुलिस्तस्याः श्रीरिव श्रीर्यस्य स कपिध्वजेषुरर्जुनबाणः प्राणभृतो व्य- थयन्भीषयमाणः खमाकाशमाससाद प्राप । उपमालंकारः ॥
परमास्त्रपरिग्रहोरुतेजः स्फुरदुल्काकृति विक्षिपन्वनेषु । |
परमेति ॥ परमात्रपरिग्रहेण दिव्यास्त्राधिष्ठानेनोरु महदत एव स्फुरदुल्काकृति । उल्कावद्दीर्घायमाणमित्यर्थः। तेजो वनेषु विक्षिपन्विकिरन्सन् । जवेन पतन्धावन्स बाणः। शतात्परे पर:शतास्तेषाम् । शताधिकसंख्यकानामित्यर्थः । 'परःशताद्यास्ते येषां परा संख्या शतादिकात्' इत्यमरः । 'पञ्चमी-'इति योगविभागात्समासः। 'राजदन्तादिषु परम्' इत्युपसर्जनस्य शतशब्दस्य परनिपातः। पारस्करादित्वात्सुडागमः। पततां पत- त्रिणाम् । पतत्पत्ररथाण्डजाः' इत्यमरः । व्रातः समूह इवारवं वितेने विस्तारयामास ॥
अविभावितनिष्क्रमप्रयाणः शमितायाम इवातिरंहसा सः । |
अविभावितेति ॥ अतिरंहसातिवेगेनाविभावितेऽलक्षिते निष्क्रमो गाण्डीवान्निःसरणं प्रयाणमन्तरागमनं च यस्य सः। तथा शमितायामः संक्षिप्तदैर्घ्य इव स्थित इत्यु- पात्तवेगगुणनिमित्ता दैर्ध्य गुणाभावोत्प्रेक्षा। स शरः। सह नु सह वा। चित्तवृत्त्येति शेषः। चित्तवृत्तेः पूर्वतरं नु प्रागेव वा । उभयत्रापि लक्ष्ये । पतित्वेति शेषः । अथवापतित्वा नु । लक्ष्य इति शेषः । लक्ष्यभेदं चकार । अत्रोपात्तवेगगुणनिमित्ताद्बाणस्य चित्सवृत्त्या सहपातपूर्वपातपतनाभावोत्प्रेक्षास्तिस्त्र उत्तरोत्तरोत्कर्षेण वेगातिशयव्यञ्जिका इत्यलंकारेण वस्तुध्वनिः॥
- ↑ 'मुखः' इति पाठः