कच्छान्त इति ॥ लक्ष्मीवान् । 'मादुपधायाश्च मतोर्वोऽयवादिभ्यः' इति मतुपो मकारस्य
वकारादेशः । स शिवः । सुरसरितो मन्दाकिन्याः कच्छान्तेऽनूपप्रान्ते । 'जलप्रायमनूपं
स्यात्पुंसि कच्छस्तथाविधः' इत्यमरः । सेनां निधाय । स्थापयित्वेत्यर्थः ।
कतिपयैः किरातवर्यैरन्वीतोऽनुगतः सन् । 'ई गतौ' इति धातोरनुपूर्वात्कर्मणि क्तः ।
सगुल्मजालैर्लताप्रतानसहितैस्तरुगहनैः प्रच्छन्नश्छादितः । 'वा दान्तशान्त-'इत्यादिना
निपातः। तस्य वराहस्य पदमन्वनुपदम् । पदानुसारेणेत्यर्थः । संप्रतस्थेप्रस्थितः।
'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । प्रहर्षणीवृत्तम् ॥
इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य- व्याख्यायां घण्टापथसमाख्यायां द्वादशः सर्गः समाप्तः ॥
त्रयोदशः सर्गः।
वपुषां परमेण भूधराणामथ संभाव्यपराक्रमं विभेदे । |
वपुषेति ॥ अथेश्वरप्रस्थानानन्तरं महेन्द्रसूनुरर्जुन: परमेण महता वपुषा हेतुना भूधराणां विमेदे विदारणे संभाव्यपराक्रमं क्षमोऽयमिति प्रतर्क्यपौरुषं स्थिराभ्यां दृढाभ्यां दंष्ट्राभ्यामुग्रं मुर्ख यस्य तं मृगम् । वराहमित्यर्थः । आशु तदागमनानन्तरम् । अविलम्वेनेत्यर्थः । विलोकयांचकार ददर्श । अस्मिन्सर्गे प्राक्पञ्चत्रिम्शच्छोकादौपच्छन्द- सिकं वृत्तम् ॥
स्फुटबद्धसटोन्नतिः स दूरादभिधावन्नवधीरितान्यकृत्यः । |
स्फुटेति ॥ स्फुटं स्पष्टं यद्धा विरचिता सटानां केसराणामुन्नतिरुद्धतिर्यस्य सः । क्रोधाद्धर्षितलोमेत्यर्थः । 'सटा जटाकेसरयोः' इति विश्वः । दूरादभिधावन्संमुखमापतन् । तथावधीरितान्यकृत्यस्त्यक्तान्यकर्मा स वराहो जयमिच्छति जयार्थिन्यत एव जातशङ्के । स्वयं जिघांसोर्द्विषामेकलक्ष्यत्वादिति भावः। तस्य मुनेर्मनसि मुहुरिमं वितर्कं वक्ष्यमाणमूहम् । 'अध्याहारस्तर्क ऊहः' इत्यमरः । आदद उत्पादितवान् ।
अथैकादशभिर्वितर्कमेव निरूपयति---
घनपोत्रवि[३]दीर्णशालमूलो निबिडस्कन्धनिकाषरुग्णवप्रः। |
घनपोत्रेति ॥ धनेन कठिनेन पोत्रेण मुखाग्रेण विदीर्णानि विदलितानि शालमूलानि