न किंचिदाचकाङ्क्षेति भावः । प्राणधारणं तु तस्य तप एवेत्याह-तथाहि । सुकर्मणां
सुकृतिनां शोभनं तपः सुतप एवामृतायतेऽमृतवदाचरति । किं तपस्तृप्तानां तर्पणा-
न्तरैरिति भावः। लोहितादिडाज्भ्यः क्यष्' । 'वा क्यषः' इत्यात्मनेपदम् । लोहिता
दिराकृतिगणः ॥
न विसिस्मिये न विषसाद मुहुरलसतां नु चाददे। |
नेति ॥ सोऽर्जुनो न विसिस्मिये। अहो मुहत्तपस्तप्तमिति न विस्मयं जगाम । 'तपः क्षरति विस्मयात्' इति स्मृतेरिति भावः । न विषसाद फलविलम्बाद्गतोत्साहो न बभूव। 'विषादश्चेतसो भङ्गः' इति लक्षणात् । 'सदिरप्रते:' इति षत्वम् । मुहुरलसतां तपति मन्दोधमत्वं च नागमत् । किं च । हतशक्तिनी हतसारे अत एव पेलवे भङ्गुरे ते हतशक्तिपेलवे रजस्तमसी गुणावुरुधृति महासारं तस्यार्जुनस्य सत्त्वं सत्त्वगुणं न हतः स्म न हतवती । हन्तेः 'लट् स्मे' इति भूतार्थे लट् ॥
तपसा कृशं वपुरुवाह स विजितजगत्रयोदयम् । |
तपसेति ॥ सोऽर्जुनस्तपसा कृशं तथापि विजितो जगत्रयस्य भुवनत्रयस्योदय उत्कर्षो येन तत्तथोक्तम् । किं च । तत्त्वविदामपि लोकहितार्थतत्त्वं जानतामपि त्रासजननं भयंकरं वपुरुवाह वहति स । न चैतञ्चित्रमित्याह---किमिति । यन्मनस्विभिर्न सुकरं तत्किमिवास्ति । न किमपीत्यर्थः । इवशब्दो वाक्यालंकारे । 'मनस्विनाम्' इति पाठे शेषे षष्ठी स्यादेव । कृद्योगलक्षणायाः 'न लोक-' इत्यादिना निषेधात् ॥
ज्वलतोऽनलादनुनिशीथमधिकरुचिरम्भसां निधेः। |
ज्वलत इति ॥ विजयी सोऽर्जुनोऽनुनिशीथमर्धरात्रे। विभत्स्यर्थेऽव्ययीभावः। अर्धरात्र- निशीथौ द्वौ' इत्यमरः । ज्वलतो दीप्यमानादनलादग्नेरधिकरुचिदीप्यमानस्तथाम्भसां निधेधैर्यं गाम्भीर्यं तदेव गुणस्तमवजयन् । किं च । शैलतः शैलादपि समुन्नततरो ददृशे दृष्टः अत्र रुच्यादिभिरनलाद्याधिक्यासंबन्धे संबन्धाभिधानादतिशयोक्तिरलंकारः॥
जपतः सदा जपमुपांशु वदनमभितो विसारिभिः। |
जपत इति ॥ सदोपांशु रहः । गूढमित्यर्थः । 'रहश्चोपांशु चालिङ्गे' इत्यमरः । 'कर-