पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८५
एकादशः सर्गः ।


ननु पुरुषत्वजात्यैव पुरुषोक्तिप्रवृत्तेः किं पुरुषकारेण । तत्राह-कृतमित्यादिद्वयेन ॥

कृतं पुरुषशब्देन जातिमात्रावलम्बिना।
योऽङ्गीकृतगुणैः श्लाध्यः सविस्मयमुदाहृतः ॥ ७२ ॥

  जातिमात्रावलम्बिना जातिमात्राभिधायिना पुरुषशब्देन कृतमलम् । न तेन किंचि- त्साध्यत इत्यर्थः । अत्र गम्यमानसाधनक्रियापेक्षया करणत्वात्तृतीयेत्युक्तं प्राक् । कृतमिति निषेधार्थमव्ययं चादिषु पठ्यते । सत्यं जातिमात्रेऽपि पुरुषशब्दः प्रवर्तते । परंतु नासौ पुंसामाशास्यः। पश्वादिसाधारण्यादिति तात्पर्यार्थः। तर्हि कीदृक्श्लाघ्य इत्याशंक्याह- य इत्यादिनार्थद्वयेन । अङ्गीकृतगुणैर्गुणपक्षपातिभिर्यः पुमाञ्श्लाघ्य: स्तुत्यः सन्सविस्मयं ससंभ्रममुदाहृतः कथितः । पुंसेदृशेन भवितव्यमिति निदर्शितः ॥

ग्रसमानमिवौजांसि सदसा गौरवेरितम् ।
नाम यस्याभिनन्दन्ति द्विषोऽपि स पु[१]मान्पुमान् ॥ ७३ ॥

  ग्रसमानमिति ॥ किं च । सदसा सभया गौरवेणेरितं कथाप्रसङ्गेषु गौरवपूर्वकमुच्चारितम्। सत ओजांसि शृण्वतां तेजांसि ग्रसमानं गिलदिव स्थितं यस्य पुंसो नाम द्विषोऽप्यभिनन्दन्त्यनुमोदन्ते । किमुत सुहृद इति भावः । स पुमान्पुमान् । पुरुषत्वेन गण्यत इत्यर्थः । प्रथमः पुंशब्दो जातिवचनो द्वितीयो गुणवचनः । स एव श्लाघ्य: । अत्र पुमान्पुमानिति तात्पर्यमात्रभेदभिन्नशब्दार्थपौनरुक्यलक्षणो लाटानुप्रासोऽलंकारः। तथा च सूत्रम्-'तात्पर्यभेदयुक्तो लाटानुप्रासः' इति ॥

  ननु सत्सु भीमादिषु तवैवायं कोऽभिनिवेश इत्यत्राह---

यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया ।
[२] मैवाध्येति नृपतिस्तृष्यन्निव ज[३]लाञ्जलेः ॥ ७४ ॥

  यथेति ॥ नृपतिर्युधिष्ठिरो यथाप्रतिज्ञं युधि द्विषतां प्रतिचिकीर्षया द्विषतः प्रतिकर्तुमिच्छया । प्रतिज्ञानुसारेणैव जिघांसोत्यर्थः । तृष्यन्पिपासुर्जलाञ्जलेरिव ममैवाध्येतीच्छति कार्यसिद्धेर्मुदायत्तत्वान्मामेव स्मरति । अतोऽयं ममाभिनिवेश इत्यर्थः । 'अधीगर्थ-' इत्यादिना कर्मणि षष्ठी ॥

  ननु युधिष्ठिरः स्वार्थं साधयति । त्वया च स्वार्थमात्रमनुसंधीयतामित्यत आह----

स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम् ।
कुच्छ्रेषु व्यर्थया यत्र भूयते भर्तुराज्ञया ॥ ७५॥

  स इति । स नरोऽवदातस्य स्वच्छस्य वंशस्य शशाङ्कस्येव लाञ्छनं कलङ्कः। यत्र यस्मिन्पुरुषे कृच्छ्रेषु व्यसनेषु भर्तुः स्वामिन आज्ञया व्यर्थया भूयते । भावे लट् । आपदि स्वार्थसाधकः कुलघातकः । तत्कथं स्वार्थनिष्ठकार्यता युक्तेत्यर्थः ॥


  1. 'मतः' इति पाठः
  2. 'मामेव' इति पाठः
  3. 'जलाञ्जलिम्' इति पाठः