एवं तर्हि 'यः करोति वधोदर्का:' इत्यायुक्तदोषः स्यादित्याशङ्कामङ्गीकृत्य ग्लानिर्न
दोषायेति न्यायमाश्रित्य युग्मेनोत्तरमाह-
अ[१]पहस्येऽथवा सद्भिः प्रमादो वास्तु मे धियः। |
अपहस्य इत्यादि ॥ अथवा सद्भिः पण्डितैरपहस्ये। अपहसिष्य इत्यर्थः । 'वर्तमान- सामीप्ये वर्तमानवद्वा' इति हसतेरण्यन्तात्कर्मणि लट्। ण्यन्तस्तु भ्रान्तपाठः। मेधियः प्रमादोऽनवधानत्वं वास्तु । भवानप्यस्थानेऽयोग्यविषये विहित आयासो हितोपदेशप्रयासो येन स तथोक्तः। विफलप्रयत्नः सन्नित्यर्थः । कामं जिह्वेतु लज्जताम् ॥
वंशलक्ष्मीमनुद्धृत्य समुच्छेदेन विद्विषाम् । |
वंशेति ॥ अहं तु विद्विषां शत्रूणां समुच्छेदेन विनाशेन करणेन वंशलक्ष्मीमनु- द्धृत्यापुनरावर्त्य निर्वाणं मोक्षमपि जयश्रियोऽन्तरायं विघ्नं मन्ये । न तु पुरुषार्थमि- त्यर्थः । किमुतान्योत्सवादिकमिति भावः ॥
नन्वयं ते दुराग्रह इत्यत आह---
अजन्मा पुरुषस्तावद्गतासुस्तृणमेव वा । |
अजन्मेति॥ पुरुषो यावदरिभिर्विलुप्तं संहृतं यश इषुभिर्नादत्ते। अरिवधेन न प्रत्याहरती- त्यर्थः । तावदजन्मा। अजातप्राय इत्यर्थः। नन्वजातोऽपि जननानन्तरमुपयुज्यत एवेत्यरुच्या पक्षान्तरमाह-गतासुर्मृतः । मृततुल्य इत्यर्थः । मृतोऽपि प्रागुपयुक्तवानित्यरुच्याह -तृणमेवेति । तृणतुल्य इत्यर्थः । अकिम्चित्करस्य त्रैकाल्यानुपयोगा- ज्जीवन्मृत इत्यर्थः । अतो नाहमाग्रहाद्ब्रवीमि । किं तु वीरधर्ममनुपालयामीति भावः ।।
सर्वथा वैरिनिर्यातनं कर्तव्यमित्युक्तम् । तदकरणे पुरुषगुणानां हानिदोषमाह-
अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति । |
अनिर्जयेनेति ॥ यस्यामर्षः क्रोधो द्विषतां शत्रूणामनिर्जयेन निर्जयं विनैव प्रशाम्यति। उपलक्षणे तृतीया । तस्मिन्पुरुष इत्युक्तिः पुरुषशब्दः कथम् । नं कथंचिदित्यर्थः। प्रवर्तत इति शेषः । प्रवृत्तिनिमित्तस्य पुरुषकारस्याभावादिति भावः । हे तपोधन, त्वं हि त्वमेव ब्रूहि कथय। न च ते किंचिदविदितमस्तीति भावः।'हि हेताववधारणे' इत्यमरः॥