पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
किरातार्जुनीये

गुणः' इत्यमरः । 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः। धनुर्नोद्यतं नोर्ध्वीकृतम् । आननं व कोपविजिह्मं कोपकुटिलं न कृतम्। यस्य कोप एवं नोदेति कुतस्तस्य युद्ध- प्रसक्तिरिति भावः । कथं तर्ह्याज्ञां कारयति राज्ञ इत्यत्राह---गुणैति। गुणेषु दयादाक्षिण्यादिष्वनुरागेण प्रेम्णः । माल्यपक्षे सूत्रानुषङ्गेण । यद्वा सौरभ्यगुणलोभेन। नराधिपैरस्य शासनमाज्ञा । मालैव माल्यं तदिव । 'चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्’ इति क्षीरस्वामी। शिरोभिरुह्यते धार्यते । 'वचिस्वपियजादीनां किति' इति यकि संप्रसारणम् । अत्रोपमा स्फुटैव ।।।

 संप्रत्यस्य धार्मिकत्वमाह---

स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनमिद्धशासनः ।
मखेष्वखिन्नोऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ॥२२॥

 स इति ॥ इद्धशासनोऽप्रतिहताज्ञः स दुर्योधनो नवयौवनेनोद्धतं प्रगल्भम् । धुरम्धरमित्यर्थः। दुःखेन शास्यत इति दुःशासनस्तम् । 'भाषायां शासियुधि--' इत्या- दिना खलर्थं युच्प्रत्ययः। यौवराज्ये युवराजकर्मणि । ब्राह्मणादित्वात्ष्यञ् । निधाय । नियुज्येत्यर्थः । पुरोधसा पुरोहितेनानुमतोऽनुज्ञातः। तस्मिन्याजके सतीत्यर्थः । तदुल्लङ्घने दोषस्मरणादिति भावः। 'निष्ठा' इति भूतार्थे क्तः । न तु 'मतिबुद्धि-' इत्यादिना वर्तमानार्थे। अन्यथा 'पुरोधसा' इत्यत्र 'क्तस्य च वर्तमाने' इति षष्ठी स्यात् । अखिन्नो- ऽनलसो मखेषु क्रतुषु हव्येन हविषा । हिरण्यं रेतो यस्य तं हिरण्यरेतसमनलं धिनोति प्रीणयति । धिन्वेः प्रीणनार्थात् 'धिन्विकृण्व्योर च' इत्युप्रत्ययः । अकारश्चान्तादेशः ॥ न चैतावता निरुद्योगैर्भाव्यमित्याशङ्क्याशां दर्शयति--

प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधि मण्डलं भुवः ।
स चिन्तयत्येव भियस्त्वदेष्यतीरहो दुरन्ता बलवद्विरोधिता ॥२३॥

 प्रलीनेति ॥ स दुर्योधनः प्रलीनभूपालम् । निःसपत्नमित्यर्थः। स्थिरायति। चिरस्थायीत्यर्थः। भुवो मण्डलमावारिधिभ्य आवारिधि। आङ्गर्यादाभिविध्योः' इत्यव्ययी- भावः । प्रशासदाज्ञापयन्नपि । 'जक्षित्यादयः षट्' इत्यभ्यस्तसंज्ञा । 'नाभ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः । त्वत्त्वत्त एष्यतीरागमिष्यतीः । धातूनामनेकार्थत्वादुक्तार्थसिद्धिः। अथवाङ्पूर्वः पाठः । 'एत्येधत्यूठ्सु' इति वृद्धिः । ‘लुटः सद्भाः', इति शतृप्रत्ययः। 'उगितश्च' इति ङीप्, 'आच्छीनद्योर्नुम्' इति विकल्पान्नुम्भावः। भियो भयहेतून्। विपद इत्यर्थः। चिन्तयत्यालोचयत्येव। स एवाह-अहो बलवद्धिरोधिता दुन- न्ता दुष्टावसाना। सार्वभौमस्यापि प्रबलैः सह वैरायमाणत्वमनर्थपर्यवसाय्येवेति तात्पर्यम्। *सामान्येन विशेष- ---------