पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८
किरातार्जुनीये


दृशम् । विरुद्धवेषमित्यर्थः। व्रतं तपोर्नियमं बिभर्मि धारयामि। न तु स्वेच्छयेति भावः। अथोपास्यां देवतामाह-भृशमिति । स्वाराध्यस्य सुखमाराध्यस्य । प्रादिसमासः 'स्वाराधस्य' इति पाठ उपसृष्टात्खल्प्रत्ययः । मरुत्वत, इन्द्रस्य । भृशं सम्यगाराधने यत्तः। प्रयत्नवानित्यर्थः । तस्य क्षत्रियदैवतत्वादिति भावः॥

  ननु भवादृशभ्रातृसहायस्य महावीरस्य युधिष्ठिरस्य कथमरिपरिभवप्राप्तिरित्यत्त आह-

दुरक्षान्दीव्यता राज्ञा राज्यमात्मा वयं वधूः ।
नीतानि पणतां नूनमीदृशी भवितव्यता ॥४७॥

  दुरक्षानिति ॥ दुरक्षान्। कपटपाशकैरित्यर्थः । 'दिवः कर्म च' इति करणे कर्मसंज्ञा। दीव्यता क्रीडता । 'आहूतो न निवर्तेत द्यूतादपि रणादपि' इति शास्त्रात् । न तु व्यसनितयेति भावः। राज्ञा युधिष्ठिरेण राज्यं राष्ट्रमात्मा स्वयं वयं चत्वारोऽनुजा वधूर्जाया द्रौपदी च पणतां ग्लहत्वम्।‘पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते' इत्यमरः। नीतानि । सर्वं द्यूते राज्ञा हारितमित्यर्थः । नीतानीति नपुंसकैकशेषः। नयतेर्द्वि- कर्मकत्वात्प्रधाने कर्मणि क्तः। ननु सर्वज्ञस्य राज्ञः कथमियमविमृष्यकारिता तत्राह- भवितव्यतानर्थानामवश्यंभावितेदृशी नूनं निश्चितम् । नात्र संशय इत्यर्थः । बुद्धिरपि भवितव्यतानुसारिण्येव । न स्वतन्त्रेत्यर्थः ॥

  ननु तथापि तवैव तेष्वासङ्गो न तेषां त्वयि तत्राह-

तेनानुजसहायेन द्रौपद्या च मया विना।
भृशमायामियामासु यामिनीष्वभितप्यते ॥४८॥

  तेनेति ॥अनुजाः सहाया यस्य तेन । अनुजयुक्तेनेत्यर्थः । तुल्ययोगः सहायार्थः ।, तेन युधिष्ठिरेण द्रौपद्या च भया विना । मद्विरह्यदित्यर्थः । आयामिनो दीर्घा यामा: प्रहरा यासां तास्ताम् । दुःखितस्य तथाभावादिति भावः। यामिनीष्वभितप्यते। भावे लट् । तेषु सद्वत्वेषां मय्यप्यासङ्गान्न वैराग्यावकाश इत्यर्थः ॥

  अथ वैरिनिर्यातनस्यावश्यंभावद्योतनाय चतुर्भिः परनिकारान्वर्णयति-

हृतोत्तरीयां प्रसभं सभायामागतह्रियः।
मर्मच्छिदा नो वचसा निरतक्षन्नरातयः ॥४९॥

  हृतेत्यादि । अरातयः शत्रवः सभायां प्रसभं बलात्कारेण हतोत्तरीयामत एवाग- तह्रिय: संप्राप्तलज्जान्नोऽस्मान्मर्मच्छिदा मर्मच्छेदिना वचसा निरतक्षन्नशातयन् । वस्त्राद्यपहारवाक्पारुष्याभ्यां तथा व्यथयामासरित्यर्थः। तक्षणशब्दसामर्थ्याद्वचसो वास्यौपम्यं गम्यत इति वस्तुनालंकारध्वनि: ॥