अभिद्रोहेणेत्यादि । भूतानामभिद्रोहेण हिंसया गत्वरारास्थराः श्रियः सपदाऽजयज्जनः ।
उदकमस्तीत्यदन्वानुदधिः । 'उदन्वानुदधौ च' इति निपातनात्साधुः । सिन्धूनां
नदीनामिवापदां विपदां पात्रतां मूलत्वमेति ॥
आपत्पात्रतामेव व्यनक्ति--
या गम्याः सत्सहायानां यासु खेदो भयं यतः । |
या इति ॥ याः संपदः सत्सहायानां विद्यमानसाधनानामेव पुंसां गम्याः साध्याः । विपदोऽपि सत्सहायानामेव गम्याः । निस्तीर्या इत्यर्थः । 'कृत्यानां कर्तरि वा' इति षष्ठी । यासु सतीषु खेदो रक्षणादिक्लेशः । विपत्सु स्वत एवेति विशेषः। यतो याभ्यः संपद्भयो भयम् । अनेकानर्थमूलत्वादिति भावः । विदद्भयस्तु स्वरूपत एवेति भावः। किं बहुना । विपदामिव तासां संपदां संबन्धि । न किम् । अस्तीति शेषः । यद्दुःखाय न भवति । सर्वं दुःखावहमेवेति भावः । यदाहुः-'अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं धिगर्थं दुःखभाजनम् ॥' इति । अतो हेया इति भावः । अत्र यन्न दुःखायेत्युत्तरवाक्यस्य यच्छब्दसामर्थ्यात्तासां किमिति पूर्णवाक्ये तच्छब्दोपादानं नापेक्षते । तदेतत्काव्यप्रकाशे स्पष्टम् ॥
दुरासदानरीनुग्रान्धृतेर्विश्वासजन्मनः । |
दुरासदानिति ॥ किं च । दुरासदान्दुःप्रापान् । विश्वासाजन्म यस्यास्तस्याः । जन्मो- त्तरपदत्वाद्व्यधिकरणो बहुव्रीहिः । धृतेः संतोषस्योग्रावरीन । धनिकस्य सर्वत्रानाश्वा- ससंभवाद्विस्रम्भसुखभञ्जकानित्यर्थः । भुज्यन्त इति भोगान्धनान्याहेयानहिषु भवान् । 'दृतिकुक्षिकलशिवस्त्यस्यहेर्ढञ्' । भोगान्फणानिव । 'भोगः सुखे धने चाहेः शरीरफणयोरपि' इत्युभयत्रापि विश्वः । अध्यास्याधिष्ठायापद्विपत्र दुर्लभा । आशीविषमखमिव नेच्छन्तमेव भोगिनं पुमांसं बलादापदवस्कन्दतीत्यर्थः ॥
इतोऽपि श्रियो हेया इत्याह----
नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते । |
नेति ॥ श्रियः संपदो जातु कदाचिदन्तरज्ञा नीचानीचविशेषाभिज्ञा न भवन्ति । अत एवासां श्रियां प्रियैर्न भूयते । न ता: कुत्राप्यनुरज्यन्तीत्यर्थः । नन्वयं श्रीदोषो न पुरुषदोष इति चेत्तत्राह-मूढा अमी जनास्तास्वननुरक्तास्वपि श्रीष्वासक्ताः। स्त्रीषिव श्रीष्वननुरक्तास्वनुरागः पुंसामेवायं दोष इत्यर्थः। किमर्थं तर्हि तास्वेव सर्वेषामा-