पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७०
किरातार्जुनीये


यादवः । अरातिषु शत्रुषु विषये जयमभिलाषुको जयमिच्छुः । 'लषपत-' इत्यादिनो- कञ्प्रत्ययः । 'न लोक-' इत्यादिना षष्ठीप्रतिषेधः । नूनमिति निश्चये । 'नूनं तर्केऽपि निश्चये' इत्यमरः । क्रोधस्य लक्ष्म कोपस्य लिङ्गमायुधं क्व । क्षमावन्तः शान्तास्तपोधनाः क्व । क्रोधशान्त्योर्विरोधात्तत्कार्ययोः शस्त्रतपसोरप्येकत्रासंगतेश्च शस्त्रिणस्ते तपो जयार्थं न तु मोक्षार्थमिति निश्चय इत्यर्थः ॥

  तपसो जयार्थत्वे दोषमाह-

यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः।
ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः ॥१९॥

  य इति ॥ यः पुमान्निश्चितं श्रेयो निःश्रेयसं मुक्तिः ।'अचतर-'इत्यादिना समासान्तो निपातः । 'मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्' इत्यमरः।निःश्रेयसं कुर्वन्तीति निःश्रेयसकरीः । निःश्रेयसुहेतुनित्यर्थः । 'कृञो हेतुताच्छील्यानुलोम्येषु' इति हेत्वर्थे टप्रत्ययः । टित्वान्ङीप् । क्रियास्तपोदानादिकर्माणि वधोदर्का हिंसाफलकाः करोति । 'उदर्कः फलमुत्तरम्' इत्यमरः । अत एव मूढः स पुमान् ग्लानिरेव दोषस्तं छिन्दत्वीति ग्लानिदोषच्छिदः पिपासाहारिणीः। क्विप्। स्वच्छा निर्मला अपः पङ्कयति पङ्कवतीः करोति।'णाविष्टवद्भावे विन्मतोर्लुक्'इति मतुपो लुक्।महाफलसाधनस्य तपसस्तुच्छफलैर्विनियोगः स्वच्छाम्दुनः पङ्कसंकरवत्प्रेक्षावद्भिर्गर्हित इत्यर्थः ।अत्र 'यत्तपसो वधोदर्कीकरणं तन्निर्मलस्य पयसः पङ्कसंकरीकरणम्'इति वाक्यार्थे वाक्यार्थान्तरमारोप्य प्रतिबिम्बकरणाक्षेपादसंभववस्तुसंबन्धाद्वाक्यार्थवृत्तिनिदर्शनालंकारः॥

  नन्वर्थकामयोरपि मोक्षवत्पुरुषार्थत्वात्तपसस्तदर्थत्वे को दोषस्तत्राह--

मूलं दोषस्य हिंसादेरर्थकामौ स्म मा पुषः ।
तौ हि तत्त्वावबोधस्य दुरुच्छेदावुपप्लवौ ॥२०॥

  मूलमिति ॥ हिंसादेरिति तद्गुणसंविज्ञानो बहुव्रीहिः । आदिशब्दादनृतस्तेयादीनां संग्रहः । दोषस्यावगुणस्य मूलं कारणभूतौ । 'स्त्रीकामा धनकामाश्च किं न कुर्वन्ति पातकम्' इति भावः । अर्थकामौ मा स्म पुषो नोपचिनुष्व । 'स्मोत्तरे लुङ् च' इति लुङ् ।'पुषादि-'इत्यादिना च्लेरङ्मदेशः। हि यस्मात्तावर्थकामौ तत्त्वावबोधस्य तत्त्वज्ञानस्य । मोक्षसाधनस्येति शेषः । दुरुच्छेदौ दुर्वारावुपप्लवौ हिंसादिप्रवर्तकत्वादन्तकौ । अत: पुरुषार्थपरिपन्थिनावेतौ न पुरुषार्थावित्यर्थ: ।

  मुक्तिप्रतिबन्धकत्वादपुरुषार्थावर्थकामावित्युक्तम् । तत्रार्थस्य दुःखैकनिदानत्वाद- प्यपुरुषार्थत्वमिति पञ्चभिः प्रपञ्चयति---

अभिद्रोहेण भूतानामर्जयन्गत्वरीः श्रियः।