पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
किरातार्जुनीये


  अथ चतुर्भिरिन्द्रं विशिनष्टि-

जटानां कीर्णया केशैः संहत्या परितः सितैः।
पृक्तयेन्दुकरैरह्न: पर्यन्त इव संध्यया ॥३॥

  जटानामिति ॥ परितः सितैः केशैः कीर्णया व्याप्तया जटानां संहृत्या समूहेनोपलक्षितः। अत एवेन्दुकरैरिन्दुकिरणैः पृक्तया युक्तया संध्ययोपलक्षितोऽह्नः पर्यन्तो दिनान्त इव स्थितः। तस्यापि परिणतरूपत्वाद्वृद्धोपमानत्वम् । जटानां संहत्येत्युक्त- त्वात्संध्यासाम्यम् ॥

विशदभ्रुयुगच्छन्नवलितापाङ्गलोचनः।
प्रालेयावततिम्लानपलाशाब्ज इव ह्रदः॥४॥

  विशदेति ॥ पुनश्च । विशदेन पलितपाण्डुरेण भ्रूयुगेन छन्ने वलितापाङ्गे बलिमत्तान्ते लोचने यस्य स तथोक्तः । 'अपाङ्गौ नेत्रयोरन्तौ' इत्यमरः। पामादित्वाल्लोमादि सूत्रेण तृलच्प्रत्ययः । प्रालेयावतत्या हिमसंहत्या म्लानपलाशानि क्लान्तदलान्यब्जानि यस्सिन्स ह्रद इव स्थितः ॥

आसक्तभरनीकाशैरङ्गैः परिकृशैरपि ।
अद्यूनः सद्गृहिण्येव प्रायो यष्ट्यावलम्बितः॥५॥

  आसक्तेति ॥ पुनश्च । परिकृशैः परिक्षीणैरप्यासक्तभरनीकाशैर्भाराकान्तसदृशैः । सभारवद्गुरूभवद्भिरित्यर्थः।'इकः काशे'इति दीर्घः।अङ्गैरुपलक्षितः।कार्श्याल्लधून्यपि स्वाङ्गानि स्वयं वोढुमसमर्थ इत्यर्थः । अत एवाद्यून औदरिकः 'आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते' इत्यमरः । आङ्पूर्वाद्वीव्यतेः क्तः। 'च्छ्वो: शूडनु- नासिके च' इत्यूठादेशः । 'दिवोऽविजिगीषायाम्' इति निष्ठानत्वम् । सद्गृहिण्यानु- कूलकलत्रेणेव प्रायः प्राचुर्येण यष्ट्यावलम्बनदण्डेनावलम्बितो धारितः । न तु स्वशक्त्येति भावः॥

गूढोऽपि वपुषा राजन्धाम्ना लोकाभिभाविना ।
अंशुमानिव तन्वभ्रपट[१]लच्छन्नविग्रहः॥६॥

  गूढ इति ॥ वपुषा गूढोऽपि । प्रच्छन्नरूपोऽपीयर्थः । प्रकृत्यादिभ्य उपसंख्या- नात्तृतीया । तन्वभ्रपटलच्छन्नविग्रहः स्तोकाभ्रवृन्दान्तरितमूर्तिरम्शुमानिव लोकाभि- भाविना लोकव्यापिना धाम्ना तेजसा । राजन्दीप्यमानो दद्दश इति पूर्वेण संबन्धः ॥

जरतीमपि बिभ्राणस्तनुम[२]प्राकृतारुतिः।
चकाराकान्तल[३]क्ष्मीकः ससाध्वसमिवाश्रमम् ॥७॥


  1. 'मण्डलच्छन्नमण्डल:' इति पाठः
  2. 'अप्राकृताकृतिम्' इति पाठः
  3. 'लक्ष्मीकम्' इति पाठः