पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
किरातार्जुनीये

स्थाननिकेतनाजिरं सभामण्डपाङ्गणं भृशमत्यर्थमार्द्रतां पङ्किलत्वं नयति । एतेन महा- समृद्धिरस्योक्ता ।अतएवोदात्तालंकारः ।तथा चालंकारसूत्रम्-‘समृद्धिमद्वस्तुवर्णनमुदात्तः' इति ।।

 संप्रति जनपदक्षेमकरत्वमाह---

सुखेन लभ्या दधतः कृषीवलैरकृष्टपच्या इच सस्यसंपदः ।
वितन्वति क्षेममदेवमातृकाश्चिराय तस्मिन्कुरवश्च[१]कासति ॥१७॥

 सुखेनेति ॥ चिराय तस्मिन्दुर्योधने क्षेमं वितन्वति क्षेमंकरे सति । देवः पर्जन्य, एव माता येषां ते देवमातृका वृष्ट्यम्बुजीविनो देशाः । ते न भवन्तीत्यदेवमातृकाः। नदीमातृका इत्यर्थः ।'देशो नद्यम्बुवृष्ट्यम्बुसंपन्नव्रीहिपालितः । स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥' इत्यमरः । एतेनास्य कुल्यादिपूर्तप्रवर्तकत्वमुक्तम्। कुरूणां निवासाः कुरवो जनपदविशेषः । कृष्टेन पच्यन्त इति कृष्टपच्या: । ‘राजसूय--' इत्यादिना कर्मकर्तरि क्यप्प्रत्ययान्तो निपातः। तद्विपरीता अकृष्टपच्या इव। कृषिर्येषामस्तीति कृषीवलैः। कर्षकैरित्यर्थः ।‘रजःकृषि--' आदिना वलच्प्रत्ययः ।'वले' इति दीर्घः । सुखेनाक्लेशेन लभ्या लब्धुं शक्याः सस्यसंपदो दधतो धारयन्तः । 'ना- भ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः । चकासति । सर्वोत्कर्षेण वर्तन्त इत्यर्थः ।'अद- भ्यस्तात्' इति झेरदादेशः । 'जक्षित्यादयः षट्' इत्यभ्यस्तसंज्ञा। संपन्नजनपदत्वादसं- तापकरत्वाच्च दुःसाध्योऽयमिति भावः ॥

 नन्वेवं जनपदानुवर्तिनः कथमर्थलाभ इत्यत आह----

उदारकीर्तेरुदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया ।
स्वयं प्रदुग्धेऽस्य गुणैरु[२] पस्नुता वसूपमानस्य वसूनि मेदिनी ॥१८॥

 । उदारेति ॥ उदारकीर्तेर्महायशसः।'उदारो दातृमहतोः इत्यमरः। दयावतः परदुःखप्रहाणेच्छो:। अतएव प्रशान्तबाधं प्रशमितोपद्रवं यथा स्यात्तथेति क्रियाविशेषणम् । उदयविशेषणं वा। 'वा दान्तशान्त-' इत्यादिना शमिधातोर्ण्यन्तान्निष्ठान्तो निपातः ।, अभिरक्षया सर्वतस्त्राणेनोदयं वृद्धिं दिशतः संपादयतो वसूपमानस्य कुबेरोपमस्य । 'वसुर्मयूखाग्निधनाधिपेषु' इति विश्वः । अस्य दुर्योधनस्य गुणैर्दयादाक्षिण्याविभिरुपस्नुता द्राविता मेदिनी वसूनि धनानि ।'वसु तोये धने मणौ' इति वैजयन्ती । स्वयं प्रदुग्धे। अक्लेशेन दुह्यत इत्यर्थः । दुहे: कर्मकर्तरि लट् । 'न दुहस्नुनमाम्यक्विणौ' इति यक्प्रतिषेधः । यथा केनचिद्विदग्धेन नवप्रसूता रक्षिता च गौः स्वयं प्रदुग्धे तद्वदिति भावः । अलंकारस्तु-'विशेषणमात्रसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः' इति सर्वस्वकारः । अत्र प्रतीयमानया गवा सह प्रक्रताङ्क्त्या मेदिन्या भेदेऽभेद- लक्षणातिशयोक्तिवशाद्दोह्यत्वेनोक्तिरिति संक्षेपः ॥


  1. ‘चकासते' इति पाठः,
  2. 'उपस्कृत्वा' इति पठः,