विकसितेति ॥ विकसितो विश्लिष्टः कुसुममेवाधरो यस्मिन्कर्मणि तद्यथा तथा हसन्तीं
स्मयमानां कुरबकराजिरेव वधूस्तां विलोकयन्तम् । कामुकतयेति भावः । अत
एवाशोकपल्लवेषु पल्लवसंस्तरेषु निषण्णम् । स्थितमित्यर्थः । रिरंसयेति शेषः। सशरम् ।
नित्यविजयित्वादिति भावः । इत्थंशृङ्गारवीरयोरेकाधिकरणभूतमनङ्गं सुराङ्गना
ददृशुरिवेत्युत्प्रेक्षा । अशोकाद्यवलोकनान्मदनसाक्षात्कारादिव महान्मनःक्षोभस्तासामासीदित्यर्थः।
अत्र रूपकोत्प्रेक्षयोः संसृष्टिः॥
मुहुरनुपतता विधूयमानं विरचितसंहति दक्षिणानिलेन । |
मुहुरिति ॥ अनुपततानुधावता दक्षिणानिलेन मलयमारुतेन मुहुर्विधूयमानं कम्पितमत एव विरचिता संहतिर्येन । तत्संभूतमित्यर्थः । पङ्कजिन्या यन्नलिनं मुखमिव तस्यान्तर्विसर्पि प्रान्तचार्यलिकुलं कर्तृ अलकाकृतिमलकसादृश्यं प्रपेदे ॥
श्वसनचलितप[१]ल्लवाधरोष्ठे नवनिहितेर्ष्यमिवावधूनयन्ती । |
श्वसनेति ॥ षट्पदेनालिना । शाललता सर्जतरुशाखा वधूरिव शाललतावधूः । 'प्राकारग्रहयोः शालः शालः सर्जतरुः स्मृतः इति शाश्वतः।श्वसनेन वायुना नि:श्वासेन च चलितः पल्लवोऽधरोष्ठ इव पल्लवाधरोष्ठो यत्र तस्मिन् । 'ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम्' । मधुना मकरन्देन मद्येन च सुरक्षिणि सुगन्धिनि पुष्पे मुख इव नवं यथा तथा निहितेर्ष्यं कृतकोपमिवेति क्रियाविशेषणम् । तथावधूनयन्ती कम्पयन्ती । 'धूञ्प्रीञोर्नुम्वक्तव्यः' इति णिचि नुमागमः । चुचुम्वे चुम्बिता । अत्र श्वसनशब्दार्थमधुशब्दार्थयोश्च स्वस्वभेदाध्यवसायाच्छ्लेषमूलातिशयोक्तिः । सा चोपमाङ्गमित्यनयोः संकरः ।।
प्रभवति न तदा परो विजेतुं भवति जितेन्द्रियता यदात्मरक्षा । |
प्रभवतीति ॥ परः शत्रुस्तदा तस्मिन्काले विजेतुं नप्रभवति न शक्नोति । यदा जिते- न्द्रियतेन्द्रिजयित्क्मात्मरक्षा भवति विद्यते । तथा हि । अवजितभुवनस्त्रैलोक्यविजयी पुष्पमासो वसन्तः। सिततुरगेऽर्जुने विषये विजयं न लेभे । अतो जितेन्द्रिया दुर्जया इत्यर्थः । विशेषेण सामान्यार्थसमर्थनरूपोऽर्थान्तरन्यासोऽलंकारः ॥
अथ ग्रीष्मं वर्णयति-
कथमिव तव संमतिर्भवित्री सममृतुभिर्मुनिनीवधारितस्य । |