निचयिनि लवलीलताविकासे ज[१]नयति लोध्रसमीरणे च हर्षम् । |
निचयिनीति ॥ निचयिन्युपचयवति लवलीलतानां विकासे पुष्पविजृम्भणे तथा लोध्रसमीरणे हर्षं चोत्कण्ठां जनयति सति पाण्डुसूनुर्विकृति नोपययौ । कुतः । हि यस्माज्जिगीषतां जेतुमिच्छतां चेतो नयान्नीतेर्न चलति । न हि क्रोधाक्रान्ते चेतसि शृङ्गारस्यावकाशः । तद्विरुद्धत्वाद्रोषस्येति भावः ॥
कतिपयसहकारपुष्परम्यस्तनुतुहिनोऽल्पविनिद्रसिन्दुवारः। |
कतिपयेति ॥ कतिपयैरेव सहकारपुष्पैश्चूतकुसुमै रम्यः। न तु वसन्तवत्समग्रैर्नापि हेमन्तवत्तद्रहितैरिति भावः । तनुतुहिनोऽल्पहिमः । न तु हेमन्तवद्वहुतुहिनो नापि वसन्तवद्विरलतुहिन इति भावः । अल्पानि कतिपयानि विनिद्राणि सिन्दुवाराणि विकसितनिर्गुण्डीकुसुमानि यस्मिन्सः। अत्रापि सहकारवदभिप्रायो द्रष्टव्यः । 'सिन्दु- वारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि' इत्यमरः । इत्थं सुरभिमुखं वसन्तप्रारम्भं हिमा- गमान्तं हेमन्तावसानं च शंसति सूचयतीति स तथोक्तः। स्मरस्यैकबन्धुः सहकारी। उभयर्तुधर्मसंपत्तेरिति भावः। शिशिरः समुपययौ ।।
अथ वसन्तप्रारम्भमाह-
कुसुमनगवनान्युपैतुकामा किसलयिनीमवलम्ब्य चूतयष्टिम् । |
कुसुमेति ॥ कुसुमप्रधानानां नगानां वृक्षाणां कुसुमानां नगा वृक्षा वा तेषां वना- न्युपैतुमारोढुं कामो यस्याः सा । 'शैलवृक्षौ नगावगौ' इत्यमरः । 'लुम्पेदवश्यं मः कृत्ये तुं काममनसोरपि' इति मकारलोपः । वसन्तलक्ष्मीः किसलयिनीं पल्लविनीं चूतयष्टिम् । चूतशाखामिवेति भावः । अवलम्ब्यावष्टभ्य । अन्यथारोढुमशक्यत्वादिति भावः । क्वणच्छिञ्जमानं शब्दायमानमलिकुलं नूपुरमिव यस्याः सा तथोक्ता सती । 'क्वणदलिकुलनूपुरम्' इत्यपि पाठः । अत्रालिकुलवन्नूपुरम् । नलिनवनेषु पदं निरासे निदधे । तेषु प्रथमं प्रादुरासीदित्यर्थः। 'उपसर्गादस्यत्यूह्योर्वा,' इति वचनादात्मनेपदम्। अत्र प्रकान्तवसन्तलक्ष्मीविशेषणसामर्थ्यादप्रस्तुतनायिकाव्यवहारसमारोपात्समासो- क्तिरलंकारः॥
विकसितकुसुमाधरं ह[३]सन्तीं कुरबकराजिवधूं विलोकयन्तम् । |