पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
किरातार्जुनीये


द्धयो नोऽस्मन्प्रोज्झ्य विसृज्य । प्रपूर्वादुज्झतेः समासेऽनञ्पूर्वे क्त्वो ल्यप् । रन्तुं मा गमन्न गच्छन्त्विति मनीषयेति शेषः । गमेर्माङि लुङ् । 'न माङयोगे' इत्यडागमप्रतिषेधः। मदिरां भृशमतिमात्रं नेषुर्नेच्छन्ति स्म । किंतु भर्तृवियोगभयादीषदेव पपुरित्यर्थः । तथाहि । प्रेम स्नेहोऽपदेऽस्थानेऽपि भयान्यनिष्टानि पश्यत्युत्प्रेक्षते । शङ्कत इति यावत् । शङ्काहेतौ प्रेम्णि कर्तृत्वोपचारः ॥

चित्तनिर्वृतिविधायि विविक्तं मन्मथो मधुमदः शशिभासः।
संगमश्च दयितैः स्म नयन्ति प्रेम कामपि भुवं प्रमदानाम् ॥७१॥

  चित्तेति ॥ चित्तस्य निर्वृतिविधायि सुखकरं विविक्तं रह।'विविक्तं रहसि स्मृतम्' इति विश्वः ॥ मन्मथो मधुमदो मद्यमदः शशिभासश्चन्द्रिका दयितैः सह संगमश्च। 'वृद्धो यूना-' इति निर्देशात्सहशब्दाप्रयोगेऽपि सहार्थे तृतीया । एतानि प्रमदानां स्त्रीणां प्रेम वियोगासहत्वावस्थासंभोगं कामपि भुवं कांचिद्दशां नयन्ति स्म । रत्यवस्थामप्यतिक्रम्य शृङ्गारावस्थां क्रीडामयीं निन्युरित्यर्थः । 'प्रेमाभिलाषो रागश्च स्नेहः प्रेमरतिस्तथा। शृङ्गारश्चेति संभोगः सप्तावस्थः प्रकीर्तितः॥' इत्युक्तं रसरत्नाकरे । 'प्रेमा दिदृक्षा रम्येषु तच्चिन्ताप्यभिलाषकः । रागस्तत्सङ्गबुद्धिः स्यात्स्ने- हस्तत्प्रवणक्रिया । तद्धियोगासहं प्रेम रतिस्तत्सहवर्तनम् । शृङ्गारस्तत्समं क्रीडा संभोगः सप्तधा क्रमः॥ इति ॥

  क्रीडावस्थामाह-

धार्ष्ट्यलङ्घितयथोचितभूमौ निर्दयं विलुलितालकमाल्ये ।
मानिनीरतिविधौ कुसुमेषुर्मत्तमत्त इव विभ्रममाप ॥ ७२ ॥

  धार्ष्ट्येति ॥ धार्ष्ट्येन प्रागल्भ्येन लङ्घितातिक्रान्ता यथोचिता योग्या भूमिर्मर्यादा यस्मिंस्तथोक्ते । चुम्बनताडनमणितसीत्कारपुरुषायितादौ स्वयमुच्छृङ्खलवृत्तिरिति भावः । निर्दयं यथा तथा विलुलितान्याकर्षणाकुलितान्यलका माल्यानि च यस्मिंस्तस्मि- न्मानिनीरतिविधौ सुरते कुसुमेषुः कामो मत्तमत्तोमत्तप्रकार इव विभ्रमं विजृम्भणमाप प्राप । मत्तः किं न करोतीति भावः । कारयितरि कर्तृत्वोपचारादुत्प्रेक्षा ।

शीधुपानविधुरेषु वधूनां निघ्नतामुपगतेषु वपुःषु ।
ईहितं रतिरसाहितभावं वीतलक्ष्यमपि कामिषु रेजे ॥७३ ।।

  शीध्विति ॥ शीधुपानेन मद्यपानेन विधुरेषु विह्वलेषु।'भैरेयमासवः शीधुः'इत्यमरः। अत एव वपुःष्वङ्गेषु निघ्नतां प्रियपराधीनतामुपगतेषु सत्सु । 'अधीनो निघ्न आयत्तः' इत्यमरः । वधूनां संबन्धिनि रतिरसे सुरतरसास्वाद आहितभावं दत्तचित्तं कामिषु विषय ईहितं चुम्बनताडनादिचेष्टितं वीतलक्ष्यं निर्विषयम् । अस्थानकृतमपीत्यर्थः । रेजे । रागिणां स्खलितमपि शोभत इति भावः ॥