लविशेषणेनैवोक्तत्वात्तत्स्वीकारश्च तद्योग एव । पूर्वं नेत्रमात्रसाम्यभाजामुत्पलानां
कम्पमानवीचियोगात्सुभ्रूविलासनेत्रसाम्यं जातमित्यर्थः ।।
ओष्ठपल्लवविदंशरुचीनां हृद्यतामुपययौ रमणानाम् । |
ओष्ठेति ॥ ओष्ट एव पल्लवस्तस्य विदंशे दंशने रुचिरभिलाषो येषां तेषाम् । मुख- सुरापानमिषेणाधरं पिपासतामित्यर्थः । रमणानां फुल्लानि लोचनान्येव विनीलसरोजानि येषु तैः । अङ्गनास्यान्येव चषकानि पानपात्राणि । 'चषकोऽस्त्री पानपात्रम् ' इत्यमरः । तैर्मधुवारो मधुपानावृत्तिर्हृद्यतां हृदयप्रियतामुपययौ । 'हृदयस्य प्रियः' इति यत्प्रत्ययः । 'हृदयस्य हृल्लेखयदण्लास-' इति हृद्भावः । रमणविशेषणार्थहेतुक- काव्यलिङ्गसंकीर्णरूपकालंकारः ॥
प्राप्यते गुणवतापि गुणानां व्यक्तमाश्रयवशेन विशेषः । |
प्राप्यत इति ॥ गुणवताप्याश्रयवशेन गुणानां विशेषः प्रकर्षः प्राप्यते व्यक्तम् । तत्तथा । यदुक्तं तत्तथैवेत्यर्थः । हि यस्माद्दयिताया आननेन करणेन दत्तं मधु रसातिशयेन स्वादुप्रकर्षण कर्त्रा व्यानशे व्याप्तम् । विशेषेण सामान्यसमर्थनरूपो- ऽर्थान्तरन्यासः॥
वीक्ष्य रत्नचषकेष्वतिरिक्तां कान्तदन्तपदमण्डनलक्ष्मीम् । |
वीक्ष्येति ॥ रत्नचषकेषु स्फटिकादिमणीपात्रेष्वतिरिक्तां यावकापगमात्पूर्वाभ्य- धिकां कान्तस्य यद्दन्तपदमण्डनं तस्य लक्ष्मीं शोभाम् । प्रतिबिम्बितामिति शेषः। वीक्ष्यौष्ठयावकनुदोऽधरलाक्षारागहारिणो मधुवारा मधुपानाभ्यासाः प्रमदानां बहुमता अभिमताः । वर्तमाने क्तः। तद्योगात्षष्ठी। जज्ञिरे जाताः । तेषां प्रियानुरागचिह्न- प्रकाशकत्वादिति भावः ॥
मधुपानाद्विलोचनेषु रागोत्पत्तिरधरेभ्यश्च लाक्षारागनिवृत्तिर्मध्वाननयोश्चान्यो- न्यगन्धसंक्रान्तिरिति स्थिते सत्युत्प्रेक्षते--
लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा । |
लोचनेति ॥ लोचने चाधरश्च लोचनाधरम् । 'समुद्राभ्राद्धः-' इति व्यभिचारज्ञाप- कान्नात्राधरशब्दस्य पूर्वनिपातः । कृतश्चासावाहृतश्चेति विशेषणसमासः । लोचना- धरस्य कृताहृतो रागो यया सा तथोक्ता । लोचनयोः कृतरागाधरादासमन्ताद्धृतरागा