पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३९
नवम: सर्गः ।


त्रिम इत्याश्वानतचित्ता अनुकूलचित्ता भवत । किंच कोपितास्तान्वरिवस्यत परिचरत । 'नमोवरिवश्चित्रङः क्यच्' इति क्यच् । वरिवसः परिचर्यायामित्यर्थे तस्य नियमश्च । इत्येवमनेकोऽनेकप्रकारो य उपदेशः प्रवर्तकवाक्यं स इव मधुवारो मधु- पानावृत्तिः । 'मधुवारा मधुक्रमाः' इत्यमरः । युवतिभिः स्वाद्यते स्म । मधुवारस्य कोपादिकार्यप्रवर्तकत्वसाम्यादुपदेश इवेत्युत्प्रेक्षा । अनियताः खलु मत्तचेष्टा इत्ति भाव: ॥

भर्तृभिः प्रणयसंभ्रमदत्तां वारुणीमतिरसां रसयित्वा ।
ह्रीविमोहविरहादुपलेभे पाटवं नु हृदयं नु वधूभिः ॥ ५४ ॥

  भर्तृभिरिति ॥ भर्तृभिः प्रणयसंभ्रमाभ्यां प्रेमादराभ्यां दत्ताम् । 'संभ्रमः साध्वसेऽपि स्यात्संवेगादरयोरपि' इति विश्वः । अत एवातिरसामधिकस्वादां वारुणीं वरुणात्मजाम् । 'सुरा हलिप्रिया हाला परिस्रुद्वरुणात्मजा' इत्यमरः । रसयित्वास्वाद्य वधूभिर्ह्रीविमोहविरहान्मदेन लज्जाजाड्यापगमाद्धेतोः पाटवं पटुत्वं तु हृदयं ज्ञानविशेषं नूपलेभे । अत एव हृदयस्य तत्कार्यज्ञानसामर्थ्याद्धृदयमेव प्रागसत्पश्चाल्ल- ब्धमिति संदेहः । अन्यथा कथं प्रियं प्रति वक्रोत्याद्यर्थेषु प्रवृत्तिरिति भावः । संदेहालंकारः॥

स्वादितः स्वयमर्थेधितमानं लम्भितः प्रियतमैः सह पीतः ।
आसवः प्रतिपदं प्रमदानां नैकरूपरसतामिव भेजे ॥ ५५ ॥

  स्वादित इति ।। स्वयं स्वादितः।आदौ स्वयमेवादाय पीतः, अथानन्तरं प्रियतमैरे- धितंमानं वर्धितबहुसंमानं यथा तथा लम्भितो ग्राहितः । स्वहस्तेन पायित इत्यर्थः। ततः प्रियतमैः सह पीतः । युगपदेकपात्रेण पीत इत्यर्थः । आसवः प्रमदानां प्रतिपदं प्रतिवारं नैकरूपरसतामनेकविधस्वादुत्वम् । नञर्थस्य नशब्दस्य सुप्सुपेति समासः। नञ्समासे नलोपः स्यात् । भेज इव प्रापेव । उपचारविशेषाद्भोज्येषु रसविशेषः स्यादिति भावः । आस्वादनादिपदार्थानामनेकरसताप्राप्तिहेतुत्वात्काव्यलिङ्गं तावदेकं स्वादनादीनामनेकधर्माणामेकस्मिन्नेव सर्वक्रमेण संबन्धात्पर्यायभेदश्च । तयोश्च संसृष्टयोरनेकरसत्वोत्प्रेक्षाबीजत्वात्तया सहाङ्गाङ्गिभावेन संकरः॥

भ्रूविलाससुभगाननुकर्तुं विभ्रमानिव वधूनयनानाम् ।
आददे मृदुविलोलपलाशैरुत्पलैश्चषकवीचिषु कम्पः ॥ ५६ ॥

  भ्रुविलासेति ॥ भूविलासैः सुभगान्सुन्दान्वधूनयनानां विभ्रमाननुकर्तुं तैरात्मानं समीकर्तुमिवेति फलोत्प्रेक्षार्थत्वात् । मृदुविलोलपलाशैरीषच्चञ्चलदलैरुत्पलैश्चषकेषु या वीचयो मधूर्मयस्तासु यः कम्पः स आददे स्वीकृतः । न तु स्वकम्पस्तस्य विलो-