पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३७
नवम: सर्गः ।


ताम् । अतएव कृतबाष्पनिपातां मानिनीं धनरोमविभेद: सान्द्रपुलकोदयोऽभिमुखमाहितं चित्तं यया ताम् । निष्कोपामित्यर्थः । शंसति स्म । व्यनक्ति स्मेत्यर्थः । अन्यथा सात्त्विकानुयादिति भावः । अत्रापि पूर्वोक्तैव नायिका ॥

  अथ संभोगशृङ्गारमाह । तत्रापि बाह्यरतमाह---

लोलदृष्टि वदनं द[१]यितायाश्चुम्बति प्रियतमे रभसेन ।
व्रीडया सह विनीवि नितम्बादंशुकं शिथिलतामु[२]पपेदे ॥ ४७ ॥

  लोलेति ॥ प्रियतमे लोलदृष्टि चञ्चलेक्षणं दयिताया वदनं रभसेन बलात्कारेण चुम्बति सति विनीवि निर्गतबन्धनमंशुकं नितम्बाद्व्रीडया सह शिथिलतामुपपेदे । उभयमपि शिथिलमासीदित्यर्थः । अत्र व्रीडांशुकरूपसंबन्धिभेदभिन्नवृत्तिस्रंसनरूपशैथि- ल्यस्याभेदाध्यवसायनिबन्धनातिशयोक्तिभूलः सहोक्तिविशेषोऽलंकारः । अत एव व्रीडांशुकौपम्यं च कल्प्यम् । अत्र वात्स्यायन:-बाह्यमाभ्यन्तरं चेति द्विविधं रतमुच्यते। तत्राद्यं चुम्बनाश्लेषनखदन्तक्षतादिकम् ॥ द्वितीयं सुरतं साक्षान्नानाकरणकाल्पितम् ॥' इति ॥

हीतया गलितनीवि निरस्यन्नन्तरीयमवलम्बितकाञ्चि ।
मण्डलीकृतपृथुस्तनभारं सस्वजे दयितया हृदयेशः॥४८॥

  ह्रीतयेति ॥ गलितनीवि गलितबन्धनं तथाप्यवलम्बिता काञ्ची येन तत् । काञ्ची- लग्नमित्यर्थः। तदन्तरीयमधोंशुकम् । 'अन्तरीयोपसंव्यानपरिधानान्यधोंशुके' इत्यमरः । निरस्यन्नाक्षिपन् । हृदयेशः प्रियो ह्रीतया वस्त्रापगमाल्लज्जितया ।ह्रीधातोः कर्तरि क्तः। दयितया मण्डलीकृतो वर्तुलीकृतः पृथुस्तनभारो यस्मिन्कर्मणि तद्यथा तथा । गाढ- मित्यर्थः । सस्वज आश्लिष्टः । प्रियदृष्टेः प्रतिबन्धार्थमित्यर्थः ।।

आदृता नखपदैः परिरम्भाश्रुम्बितानि घनदन्तनिपातैः ।
सौकुमार्यगुणसंभृ[३]तकीर्तिर्वाम एव सुरतेष्वपि कामः॥४९॥

  आदृता इति ॥ परिरम्भा आलिङ्गनानि नखपदैर्हेतुभिरादृता अभिमताः । 'हेतौ' इति तृतीया । तथा चुम्बितानि चुम्बनानि घनदन्तनिपातैर्गाढदन्तक्षतैर्हेतुमिरादृतानीति लिङ्गविपरिणामः । सुरतसुखोद्दीपकत्वान्नखदन्तक्षतपूर्वकेष्वालिङ्गनचुम्बनेष्वादरः संवृत्त इत्यर्थः । ननु सुकुमारे कामतन्त्रे कथं पीडाकरेष्वादर इति न वाच्यमित्याह- सौकुमार्येति । सौकुमार्यमेव गुणस्तेन संभृतकीर्तिर्लब्धयशाः कामः सुरतेषु संभोगेष्वपि । न केवलं विप्रलम्भेष्विति भावः । वामः क्रूर एव । सुकुमार काम इति वादमात्रम् । वस्तुतस्तु पीडयन्नेव सुखमावहतीति भावः । सामान्येन विशेषणसम- थेनरूपोऽर्थान्तरन्यासः ॥


  1. 'वनितायाः' इति पाठः
  2. 'अभिपेदे' इति पाठः
  3. 'लम्भित', 'संवृत' इति पाठौ