अथ युग्मेन सखीनायिकासंवादमाह-
उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी। |
उच्यतामिति ॥ तत्र नायिकाह :-स धूर्तोऽशेषमखिलं वचनीयं वक्तव्यमुच्य- ताम् । निःशङ्कमुपालभ्यतामित्यर्थः । ब्रूझो दुहादित्वादप्रधाने कर्मणि लोट् । अथ सख्याह-हे सखि, ईश्वरे भर्तरि नायके विषये परुषता पारुष्यं न साध्वी न हिता। अथ नायिकाह—तनमननीय सान्त्वयित्वानय । पुनः सख्याह-विप्रियाणि जनयन्नप्रियाणि कुर्वन्स कथं वानुनेयोऽनुनयाहः ॥
किं गतेन न हि युक्तमुपैतुं कः प्रिये सुभगमानिनि मानः। |
किमिति ॥ पुनर्नायिकाह-तार्ह गतेन तं प्रति गमनेन किम् । कोऽर्थ इत्यर्थः । अत उपैतुं गन्तुं न युक्तं हि । पुनः सख्याह-हे सुभगमानिनि सौन्दर्यमानिनि । सुभगमात्मानं मन्यत इति । 'आत्ममाने खश्च' इति चकारागिणनिप्रत्ययः । तस्मिन्- प्रिये विषये को मानः । मानो न कर्तव्य इत्यर्थः । यद्वा। नहीत्यादि सखीवाक्यम् । तत्र नहीत्येकं वाक्यम् । तद्युक्तं सखीत्यर्थः । हे सखि, किं तूपैतुं युक्तम् । कुतः। सुभगमानिनि प्रिये को मानः । तादृग्जनस्य दुर्लभत्वादिति भावः । इत्येवंरूपासु योषितां कथासु विषये समेतैः । समीपमागत्याकर्णयद्भिरित्यर्थः । कामिभिर्बहुरसा- नेकस्वादा धृतिः संतोष ऊह ऊढा । अत्र रौक्ष्योत्सुक्यनिर्वेदाद्यनेकभावशाबल्यपरि- पूर्णकान्ताकथाकर्णनादुत्तरोत्तरमपूर्वहृदयानन्दनिष्यन्दमानन्दसंदोहमविन्दन्नित्यर्थः । प्रायेणात्र प्रौढाः कलहान्तरिताश्च नायिकाः॥
'योषितः पुलकरोधि दधत्या धर्मवारि नवसंगमजन्म । |
योस्ति इति ॥ पुलकरोधि रोमाञ्चव्यापि नवसंगमेन जन्म यस्य तद्धर्मवारि स्वेदो- दकं दधत्या इति सात्त्विकोक्तिः । कान्तवक्षसि पतन्त्येत्यौत्सुक्योक्तिः । योषितो या लुलितमण्डनतोत्सृष्टप्रसाधनत्वम् । भावे तल् । सैव मण्डनं बभूव । तादृश- फलत्वात्तस्येति भावः ॥
शीधुपानविधुरासु निगृह्णन्मानमाशु शिथिलीकृतलजः। |
शीध्विति ॥ शेरतेऽनेनेति शीधु पक्केक्षुरसविकारो मद्यविशेषस्तस्य पानेन विधु-
- ↑ 'भूषणम्' इति पाठः