पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३१
नवम: सर्गः ।


लेखया विमलविद्रुमभासा संततं तिमिरमिन्दुरुदासे ।
दंष्ट्रया कनकट[१]ङ्कपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥ २२ ॥

  लेखयेति ॥ इन्दुर्विमलविद्रुमंभासा स्वच्छप्रवालसवर्णया लेखया कलयासंततं सान्द्रं तिमिरमादिवराहः कनकस्य टङ्कः शिलाभेदकं शस्त्रम्।'टङ्कः पाषाणदारणः'इत्यमरः। तद्वत्पिशङ्ग्या लोहितवर्णया । 'पिशङ्गादुपसंख्यानम्' इति डीप् । दंष्ट्रया भुवा मण्डलमिव । उदास उञ्चिक्षिपे । अस्यतेः कर्तरि लिट् । सोपसर्गादस्यतेरात्मनेपदं विकल्पात् ॥

दीपयन्नथ नभः किरणौघै: कुङ्कुमारुणपयोधरगौरः ।
हेमकुम्भ इव पूर्वपयोघेरुन्ममज्ज शनकैस्तुहिनांशुः ॥ २३ ॥

  दीपयन्निति ॥ अथोदयानन्तरं किरणौघैर्नभो दीपयन्प्रकाशयन्कुङ्कुमेनारुणो यः पयोधरः कुचस्तद्वद्गौरोऽरुणः। उदयरागादिति भावः । तुहिनांशुरिन्दुः शनकैः पूर्वपयोधेः पूर्वसागराद्धेम्नः कुम्भ इवोन्ममज्जोज्जगामेत्युत्प्रेक्षा ।

उद्गतेन्दुमविभिन्नतमिस्रां पश्यति स्म रजनीमवितृप्तः।
व्यंशुकस्फुटमुखीमतिजिह्मां व्रीडया नववधूमिव लोकः ॥२४॥

  उद्गतेन्दुमिति ॥ लोको जनः । 'लोकस्तु भुवने जने' इत्यमरः । उद्गतेन्दुमुदितचन्द्रा- मविभिन्नतमिस्रामनि:शेषितध्वान्तां रजनीं व्यंशुकमपनीतावगुण्ठनमत एव स्फुटं दृश्यमानं मुखं यस्याः सा तां तथापि व्रीडयातिजिह्मां वक्रां नववधूं नवोढाम् । 'वधूर्नवोढयोषायां स्नुषाभार्याङ्गनासु च' इति धरणिः । स्त्रियमिवावितृप्तः सन्पश्यति स्म ।

न प्रसादमुचितं गमिता द्यौर्नोद्धृतं तिमिरमद्रिवनेभ्यः।
दिङ्मुखेषु न च धाम विकीर्णं भूषितै[२]व रजनी हिमभासा ॥२५॥

  नेति ॥ हिमभासा चन्द्रेण द्यौराकाशमुचितंयोग्यं प्रसादं न गमिता । अद्रयो वनानि च तेभ्यस्तिमिरं नोद्धृतं नोत्सारितम् । दिशां मुखेषु धाम तेजश्च न विकीर्णं न पर्यस्तम् । तथापि रजनी भूषितैव। उक्तगुणासंपत्ताविति भावः । अत्र प्रसाधनकारणाभावेऽपि तत्कार्यभूषणोक्त्या विभावनालंकारः ॥

मानिनीजनविलोचनपातानुष्णबाष्पकलुषान्प्रतिगृह्णन् ।
मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥ २६ ॥

  मानिनीति ॥ उदितः शीतमयूख उष्णेन विरहतप्तेन बाष्पेण कलुषानाविलान्मानि- नीजनस्य कलहान्तरितनायिकाजनस्य विलोचनपातान् । मानभङ्गजनितरोषेण भीषणानिति भावः । 'कोपात्कान्तं पराणुद्य पश्चात्तापसमन्विता। कलहान्तरिता' इति द-


  1. 'भङ्ग' इति पाठः
  2. 'च' इति पाठः