पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
किरातार्जुनीये


अतिस्थूलैरित्यर्थः । वधूपयोधरैश्च तटमभितो नीतेन प्रापितेनात एक विभिन्नवीचिना भग्नोर्मिणाम्भसा कर्त्रा । रुषेवेति हेतूत्प्रेक्षा। कलुषत्वमाविलत्वम् । मनःक्षोभश्च ध्वन्यते। भेजे। कर्मणि लिट् । यथा कश्चिन्मृदुस्वभावः केनचित्कठिनादिना साङ्गभङ्गं ताडयित्वा निष्कासितःक्षुभ्यति तद्वदिति भावः। कलुषत्वमित्यत्र वाच्यप्रतीयमानयोरभेदाध्यवसायः। अन्यथा शुद्धवाच्यस्याविलत्वस्य रोषहेतुकत्वादुत्प्रेक्षानुविधानादिति ।।

विधूतकेशाः परिलोलि[१]तस्त्रजः सुराङ्गनानां प्र[२]विलुप्तचन्दनाः ।
अतिप्रसङ्गाद्विहितागसो मुहुः प्रकम्पमीयुः सभया इवोर्मयः॥३३॥

  विधूतेति ॥ विधूता विक्षिप्ताः केशा यैस्ते परिलोलिता विलोलिताः स्त्रजो यैस्ते प्रविलुप्तचन्दनाःप्रमृष्टाङ्गरागा अतिप्रसङ्गादविच्छेदात्सुराङ्गनानां विहितागसः कृतमण्डन- खण्डनरूपापराधा अत एवोर्मयस्तरङ्गाः । सभया इव स्त्रीभ्यो भीता इव मुहुः प्रकम्पमीयुः। स्वाभाविकस्य कम्पस्य भयहेतुकत्वमुत्प्रेक्ष्यते । यद्वा । सुराङ्गनानां विधूतकेशा इत्यादियोजना । सापेक्षत्वेऽपि गमकत्वात्समासः । स्त्रीसंग्रहणसाहसमपराधः । भयं तु राजादिभ्य इति ॥

विपक्षचित्तोन्मथना नखव्रणास्तिरोहिता विभ्रममण्डनेन ये।
हृतस्य शेषानिव कुङ्कुमस्य तान्विकस्थनीयान्दधुरन्यथा स्त्रियः॥३४॥

  विपक्षेति ॥ विपक्षस्य सपत्नीजनस्य चित्तानामुन्मथनाः । व्यथका इत्यर्थः । बहुलग्रहणात्कर्तरि ल्युट् ।ये नखव्रणा नखक्षतानि । 'व्रणोऽस्त्रियाम्' इत्यमरः । विभ्रमस्य सौन्दर्यस्य मण्डनम् । तादर्थ्येऽप्यश्वघासादिवत्यष्ठीसमासः । न तु चतुर्थीसमासो यूपदार्वादियत्प्रकृतिविकाराभावादिति । तेन कुङ्कुमलेपादिना तिरोहिताश्छन्ना इतस्य क्षालितस्य कुङ्कुमस्य । व्यञ्जकत्वेन शेषानिवावशिष्टलेशानिव स्थितानित्युत्प्रेक्षा । विकत्थनीयान्भर्तृवाल्लभ्यस्य व्यञ्जकत्वेन श्लाघनीयांस्तान्नखव्रणान्स्त्रियोऽन्यथा दधुः। प्रकाशं दधुरित्यर्थः ॥   अथ युग्मेनाहः-सरोजेत्यादिना ॥

सरोजपत्रे नु[३]विलीनषट्पदे वि[४]लोलदृष्टेः स्विदमू विलोचने ।
शिरोरुहाः स्विन्नतपक्ष्मसंततेर्द्विरेफवृन्दं नु निशब्दनिश्चलम् ॥३५॥

  अमू पुरोवर्तिनी विलीनपट्पदे संसक्तभृङ्गे । सकनीनिकत्वमक्ष्णोरर्थं सिद्धमित्युपमानं विशिष्यते । सरोजपत्रे नु । यद्वा । विलोलदृष्टेश्चञ्चलाक्ष्या विलोचने स्वित् । नुस्विच्छब्दौ वितर्के । किंच । नतपक्ष्मसंततेश्चञ्चलाक्ष्याः शिरोरुहाः स्विन्निशब्दं नीरवं च तन्निश्चलं च तद्भिरेफवृन्दं तु ॥


  1. 'लोडित' इति पाठः
  2. 'अवलुप्त' इति पाठ:
  3. 'परिलीन' इति पाठः
  4. 'विशाल' इति पाठ: