पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११७
अष्टमः सर्गः ।


न्धीत्यर्थः । आत्तशीकरः । कुतः । तरङ्गमालानामन्तरे मध्ये गोचरः स्थानं यस्य सोऽनिलो विलासिनीभ्यो भुजालम्बं ददाविवेत्युत्प्रेक्षा । विशिष्टवायुसंपर्कात्तथोच्छ- श्वसुरित्यर्थः ॥

गतैः सहावैः कलहंसवि[१]क्रमं कलत्रभारैः पुलिनं नितम्बिभिः ।
मुखैः सरोजानि च दीर्घलोचनैः सुरस्त्रियः साम्यगुणान्निरासिरे ॥२९॥

  गतैरिति ॥ सुरस्त्रियोऽप्सरसः सहावैः सविलासैर्गतैर्गतिभिः। नपुंसके भावे क्तः । कलहंसानां विक्रमं गतिम् । विलासविधुरमिति शेषः । तथा नितम्बिभिः प्रशस्तनितम्बै कलत्रभारैर्जघनभारै: पुलिनम्। नितम्बभारशून्यमित्यर्थः। तथा दीर्घलोचनैर्मुखैः सरोजानि च। अलोचनानीति शेषः । साभ्यगुणात्समानगुणत्वान्निरासिरे निरस्तवत्यः। गुणवदगुणयोः कुतःसाम्यमिति भावः । अस्यतेः कर्तरि लिट् । 'उपसर्गादस्यत्यूह्योर्वा" इति विकल्पादात्मनेपदम् ॥

विभिन्नपर्यन्तगमीनपङ्क्तयः पु[२]रो विगाढाः सखिभिर्मरुत्वतः।
कथंचिदापः सुरसुन्दरीजनैः सभीतिभिस्तत्प्रथमं प्रपेदिरे ॥ ३० ॥

  विभिन्नेति ॥ विभिन्ना विच्युतसंघाताः पर्यन्तगाः प्रान्तगता मीनानां पङ्क्तयो यासां ताः । कुतः । मरुत्वतः सखिभिरिन्द्रस्य सचिवैर्गन्धर्वैः पुरः पूर्वं विगाढाः प्रविष्टाः । तासां विश्वासार्थं गर्तग्राहादिपरीक्षार्थं चेति भावः । सभीतिभिरप्रविष्टविषयत्वात्सभयैः। 'विषादिभिः' इति पाठेऽप्ययमेवार्थः । सुरसुन्दरीजनैस्तदेवावगाहनं प्रथमं यथा तथात एक कथंचिद्भयात्कृच्छ्रेणापः प्रपेदिरे जगाहिरे ॥

विढागमात्रे रमणीभिरम्भसि प्रयत्नसंवाहितपीवरोरुभिः।
विभिद्यमाना विससार सारसानुदस्य तीरेषु तरङ्गसंहतिः ॥ ३१ ॥

  विगाढेति ॥प्रयत्नेन संवाहिताः संचारिताः पीवराः स्थूला ऊरवो याभिस्ताभी रमणीभिरम्भसि विगाढमात्रे प्रविष्ट एव सति । सुपसुपेति समासः । 'मात्रं कात्स्नर्येऽवधारणे इत्यमरः । विभिद्यमाना स्वयं विशीर्यमाणा । कर्मकर्तरि शानच् । तरङ्गसंहति- स्तीरेषु सारसान्पक्षिविशेषान् 'सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः' इति यादवः। यद्वा । सारसान्हंसान् । 'चक्राङ्गः सारसो हंसः' इति शब्दार्णवे। उदस्योत्सार्य विससार वितस्तार ॥

शिलाघनैर्नाकसदामुरःस्थलैर्बृहन्निवेशैश्च वधूपयोधरैः।
[३]टाभिनीतेन विभिन्नवीचिना रुषेव भेजे कलुषत्वमम्भसा ॥३२॥

  शिलेति॥ शिलावद्धनैः कठिनैर्नाकसदां गन्धर्वाणामुर:स्थलैर्बृहन्निवेशैर्महासंस्थानै:।


  1. 'विभ्रमम्' इति पाठ:
  2. 'पुरोऽवगाढाः' इति पाठः
  3. 'तटान्तनीतेन' इति पाठ: