प्रस्थानेति ॥ गजपतिना प्रस्थानश्रमेण गमनक्लेशेनजनितां निद्रां विहायामुक्तेऽतएव
सदानपङ्के गजमदयुक्ते शय्यान्ते शयनीयप्रदेशे क्षणं विलीनं लग्नमलिनां कुलं संरम्भे-
णोत्थानसंभ्रमेण च्युतं भ्रष्टं शृङ्खलं निगडमिवेत्युत्प्रेक्षा । 'अथ शृङ्खले । अन्दुको
निगडोऽस्त्री स्यात्' इत्यमरः । चकाशे शुशुभे ॥
आयस्तः सुरसरिदोघरुद्धर्त्मा संप्राप्तुं वनगजदानगन्धि रोधः । |
आयस्त इति ॥ वनगजदानस्य गन्धोऽस्यास्तीति तथोक्तं रोधः । परकूलमित्यर्थः । संप्राप्तुं गन्तुमायस्त उत्सुकः । प्रयत्नं कुर्वाण इत्यर्थः । 'यसु प्रयत्ने' इति धातोः कर्तरि क्तः। किंतु सुरसरिदोधेन गङ्गाप्रवाहेण रुद्धं वर्त्म यस्य सः । नागो गजो निहितो दत्तः शितस्तीक्ष्णोऽङ्कुशो यस्मिन् । 'अङ्कुशोऽस्त्री सृणिः स्त्रियाम्' इत्यमरः । तं मूर्धानं विधु- न्वन् । रोषादिति भावः । यन्तारं न विगणयांचकार न विगणयामास ॥
आरोढु: समवनतस्य पीतशेष साशङ्कं पयसि समीरिते करेण । |
आरोढुरिति ॥ समवनतस्य जलपानार्थमानतपूर्वकायस्य करेणोर्गजस्य । 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । करेण पीतस्य शेषे पयस्यारोढुर्हस्तिपकात्साशङ्कं सभयं समीरिते। क्षिप्ते सतीत्यर्थः ।शीकरोऽम्बुकणः। अरुणे मदस्त्रुती मदधारे ययोस्तौ कपोलौ संमार्जन्प्रमृजन । 'मृजेरजादौ संक्रमे विभाषावृद्धिर्वक्तव्या' इति वृद्धिः । मद् इव सस्यन्दे सुस्राव । मदसंपृक्तस्य मदसादृश्यान्मदोपमा ।
आघ्राय क्षणमतितृष्यता [१]पि रोषादुत्तीरं निहितविवृत्तलोचनेन । |
आघ्रायेति ॥ अतितृष्यताप्यतिपिपासतापि क्षणमाघ्राय रोषादुत्तीरं परतीरे । विभक्यर्थेऽव्ययीभावः । निहिते विवृत्ते घूर्णिते लोचने यस्य तेन । प्रतिगजदिदृक्षयेति भावः । वारणेन हिमं शीतलमपि वनकरिणां मदाम्बुसेकैर्दानधाराभिः संपृक्तं वारि नाचेमे न पीतम् । 'चमू अदने' इति धातोः कर्मणि लिट् ॥
प्रश्च्योतन्मदसुरभीणि निम्नगायाःक्रीडन्तोगजपतयःपयांसि कृत्वा। |
प्रश्च्योतदिति ॥ क्रीडन्तो विहरन्तो गजपतयो निम्नगाया गङ्गायाः पयांसि प्रश्च्योतद्भिःक्षरद्भिर्मदैः सुरभीणि कृत्वा किंजल्कैः केसरैर्व्यवहितास्तिरोहितास्ताम्रास्ताम्रवर्णा दानलेखा मदराजयो येषु तैरतएव सरसिजगन्धिभिः कपोलैरुपलक्षिताः सन्त
- ↑ 'अतिरोषात्' इति पाठः