पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
किरातार्जुनीये


भ्यधिकं यथा तथा श्रीमत्ताम् । श्रियमित्यर्थः । आदधे जनयामास। तथाहि। महोदयानां महात्मनां संसक्तौ सम्यक्संबन्धे । 'संभक्तौ' इति पाठे तु सम्यक्सेवायाम् । किमसुलभम् । न किंचिद्दुर्लभमित्यर्थः । यतः । यदृच्छया दैवाद्योगोऽप्युच्छ्रायमुत्कर्षं नयति । अत्र प्रकृतयदृच्छया योगस्योत्कर्षाभिधानादप्रकृतसक्तियोगस्योत्कर्षांधायकत्वे कैमुतिकन्यायेनार्थापत्तिरिति प्राकरणिकादप्राकरणिकरूपार्थापत्तिरलंकारः । तदुक्तम्- 'एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यथा पतेत् । कैमुत्येन यतः सा स्यादर्थापत्तिरलंक्रिया ॥' इति ॥

सामोदाःकुसुमतरुश्रियोविविक्ताःसंपत्तिःकिसलयशालिनीलतानां
साफल्यं ययुरमराङ्गनोपभुक्ताः सा लक्ष्मीरुपकुरुते य[१]या परेषाम् ॥२८॥

  सामोदा इति ॥ सामोदाः ससौरभाः कुसुमप्रधानास्तरवः । शाकपार्थिवादिषु द्रष्टव्यः। तेषां श्रियः समृद्धयो विविक्ता विजनप्रदेशाः। 'विविक्तविजनच्छन्ननिःशलाकास्तथा रहः' इत्यमरः । किसलयशालिनीलतानां नवपल्लवयुतवल्लीनां संपत्तिरेता अमराङ्गनोपभुक्ताः सत्यः साफल्यं ययुः। तथाहि । यया लक्ष्म्या करणेन परेषामुपकुरुते। लक्ष्मीवानिति शेषः । सा लक्ष्मीर्नान्येति भावः। परेपामित्यत्र 'अनुकरोति भगवतो नारायणस्य' इत्यादिवत्क्रियायोगे हि संबन्धसामान्ये षष्ठी ॥

क्लान्तोऽपित्रिदशवधूजनः पुरस्ताल्लीनाहि[२]श्वसितविलोलपल्लवानाम्।
सेव्यानां हतविनयैरिवावृतानां संपर्कं परिहरति स्म चन्दनानाम् ॥२९॥

  क्लान्त इति ॥ क्लान्तोऽपि त्रिदशवधूजनः पुरस्तादग्रे लीनानां संश्रितानामहीनां श्वसितैर्निःश्वासैर्विलोलाः पल्लवा येषां तेषां चन्दनानां संपर्कं हतविनयैर्दुर्जनैः खलैरावृतानां संवृतानां सेव्यानां प्रभूणां संपर्कमिव परिहरति स्म । दुष्टयद्दुष्टसंसृष्टा गुणाख्या अपि त्याज्या इति भावः ॥

उत्कृष्टध्वजकुथकङ्कटा धरित्रीमानीता विदितनयैः श्रमं विनेतुम् ।
आक्षिप्तद्रुमगहना युगान्तवातैः पर्यस्ता गिरय इव द्विपा विरेजुः॥३०॥

  उत्सृष्टेति ॥ उत्सृष्टा आक्षिप्ता ध्वजाः कुथा आस्तरणानि कङ्कटास्तनुत्राणानि च येभ्यस्ते । 'प्रवेण्यास्तरणं वर्ण: परिस्तोमः कुथो द्वयोः' इत्यमरः । विदितनयैः शिक्षा- भिज्ञैर्यन्तृभिः श्रमं विनेतुं क्लममपनेतुं धरित्रीमानीताः। निवेश्यमाना इत्यर्थः । द्विपा युगान्तवातैराक्षिप्तान्युद्धृतानि द्रुमाणां गहनानि वनानि येभ्यस्ते पर्यस्ता विपर्यासिता गिरय इव विरेजुः शुशुभिरे ॥

प्रस्थानश्रमजनितां विहाय निद्रामामुक्ते गजपतिना सदानपङ्के ।
शय्यान्ते कुलमलिनां क्षणं वि[३]लीनं संरम्भच्युतमिव शृङ्खलं चकाशे ॥३१॥


  1. 'हि या' इति पाठः
  2. 'श्वसन' इति पाठः
  3. 'निलीनम्' इति पाठः