पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६३
द्वात्रिंशोऽध्याय :

सुधया सर्वत्र कारयेत् । 1कराल मुद्र कुल्माप2कर्ककी चिक्कणै। पञ्चविधचूर्णे चतुर्भागिकं भस्म संयम्य चूर्णद्विगुणशर्करायुतं शणवालुकायुतं जल कषाय त्रिफलोदक क्षीर3माष यूष बन्धोदकै त्रिभि. 4मर्दयित्वा माष यूष क्षीर सहित 5शुद्धोदकेन शुद्ध कृत्वा गन्धोदकेनाऽलिप्य सुधया नानारूपक्रिया कारयेत् ।

इति श्रीवैखानसे भगवच्छाखे कश्यपप्रोते ज्ञानकाण्डे मूर्धेष्टकाविधानं नाम द्वात्रिंशोऽध्यायः ।।

॥अथ त्रयशिोऽध्यायः॥

विमानभेदाः

नलिनकादिविमानाना षण्णवतिरुक्तानि । तेषु नलिनकं देवाख्यम् । मानुषं ब्रह्मकृत स्वस्तिक 6वापीप्रसाद अर्धचन्द्र शालीकरण पूर्वरङ्ग बहुचित्र गोधामुख पर्वताकृति महापद्म 7नन्दीविशाल अष्टाङ्गसोमच्छन्दे चतृस्फुट श्रीकृत नन्द्यावर्त श्रीप्रतिष्ठितक सर्वतोभद्राः अष्टादश विमानानि देवदेवस्य तेष्वष्टावाद्या ब्रह्मणानां 8चत्वारः क्षत्रियाणां शेषा विट्शूद्रयोः । 7नन्दीविशालं दक्षिणे ग्रामादीनां पश्चिमे 9अष्टाङ्गमुत्तरे सोमच्छन्द पूर्वेपर्वताकृति 10सर्वदिक्षु चतुःस्फुटं ग्रामबाह्योद्यानपर्वतनदीतीरेषु नन्दीविशालं सर्वतोभद्र पर्वताकृतिं वा कारयेत् । 11ब्रह्मकृतं सर्वतोभद्रं श्रीप्रतिष्ठितकं वा ग्राममध्ये पञ्चमूर्तिविधानेन कारयेत् । अधस्तले 12चतुद्वराः चत्वारो गर्भागाराः । तेषु स्थितानासीनाम्चा पुरुषादीनुपरि विष्णु तदुपरेि शयानं सपरिवारं देवीभ्या मृषिभ्या वा कारयेत् ।

इति श्रीवैखाससे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे विमानलक्षणस्थाननिर्देशो नाम त्रयशिोऽध्यायः ।।


1. क. कृकराल. 2. कर्कक. ३. घ. माषबन्थ. 4. 4. कुट्टयित्वा मासगुलक्षीर. . 4. शुद्धोदकेनालिप्य सुथया. 6. B. वापि. 1. 4.B. नदीविशाल, 8. B. चरन्त्या ९: 3. घ. विशालाङ्गमिति तत्र स्थाने. 10. अत्र पूर्वे इत्यधिकं क. कोशे. 11. ध. वृहकृतं 12. घ. 8.चत्वारो गाणगाराः चत्वारो गाभिगाराः य