पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

पञ्चागयैः स्नात्वा नववरुवादिभिरलङ्कतः अग्नेर्दक्षिणतः पत्नीसहितो यजमानः पुण्याहं वाचयित्वा "विश्वा उत त्वये ” इत्यग्निं प्रदक्षिणं कृत्वा “ अघोरचक्षु ” रित्यासनञ्च कृत्वा “मयि गृझ " मीत्यभिवन्द्याग्निं “ अदितेनुमन्य ” स्वेत्या दिना वेदिं परिमृज्य अग्नीषोमीयं बार्हस्पत्यं 2वैष्णवं जुहोति पद्माग्नौ । 3ाहवनीये सारस्वतमन्वाहार्ये वैष्णवं गार्हस्पत्ये सौरमावसथ्ये वैश्वदेव सभ्ये सप्तर्षिदैवत्यं वैष्णवञ्च हुत्वा, धेता-जं घृताप्लुतं प्राजापत्येन पौण्डरीकाग्नौ दशसहग्रं प्रजार्थी जुहोति । पश्चात् 4स्थालीपाकवत् च श्रपयित्वा सङ्गृह्य "देवस्य" त्वेत्यभिघार्य अन्न प्रक्षिप्य त्रिभागं कृत्वा कुशाग्रयवसर्षपतिलाऽज्य दधिपयोयुतं पिण्डत्रयं कृत्वा 'अतो देवादि ' ना आग्रपिण्डं “ ब्रह्मजज्ञान " मिति मध्यपिण्ड “ रुद्रमन्य ” मित्युपरिपिण्डमभ्यच्र्य विष्णुब्रहमेश्वरेभ्यो निवेदयित्वा आचमनं दद्यात् । यजमानो “ मम हृदय ” मितेि वध्वा हृदयमभिमृशेत् । आचार्यहस्तात् पिण्डं विश्धमन्त्रेणानम्य सड़गाह्य वैष्णवं पिण्डं पत्नीं प्राशयेत् । ब्राहा पिण्ड स्वयं प्राश्याऽऽचम्य “विष्णुर्योनेि"मित्युदरमभिमृश्या शिष्टं पिण्डं जले प्रक्षिप्य शक्तितो दक्षिणां दत्वा ऋत्विजो हिरण्यभूगावाश्धाचैः सम्पूज्याग्नीन् विसर्जयति । देवताश्च यथेष्टं स्तुत्वा विसृज्य स्वगृहं प्रविश्य चतुर्थीक्रियावदुपगमनं करोति । द्वादशमासात् आयुष्मन्तं बलबन्तं श्रीमन्तं बृहस्पतिसमं पुत्रं जनयति ।

इतेि श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे ब्रह्मवर्चसकामादिकर्तव्यविधिनिरूपणं नाम षष्ठोऽध्यायः ।।


1. छ, B - स्नापयित्वा. 2. ब्रह्म प्राजापत्यमित्यधिकं, 3. B - पद्मागावित्यधिकं. 4. शालितण्डुलेन इत्यधिकम् .