पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११

।।अथ सप्तमोऽध्यायः ।।

श्रीकामस्य विधिः

अथ श्रीकामस्य श्रीसाधनम् । " श्रियं तु साधयेद्यत्ना " दितीयं वैदिकी श्रुतिः । तस्मात् पूर्वजन्मकृतमनपेक्ष्यैव1 श्रियं साधयेत् । तत्र श्रीर्विविधा । राजश्रीः ब्रह्मश्रीश्चेति । 2आडयमात्रेण 3येन केनचिदैश्वर्येण 4युक्तता राजश्रीरिति विज्ञायते । ब्रह्मश्रीस्तु अग्निष्टोमादीनां सर्वेषां क्रतूनामवाप्तिर्राणिमाथैश्वर्य सिद्धिश्च । ब्राह्मणैश्च पूज्या ब्रह्मश्रीरेिति 5ब्रह्मवादिनो वदन्ति । तस्मात् 6द्विशतदलयुतं कुण्डं कृत्वा पूर्ववदाघारं हुत्वा तत्राग्निमुपलक्षयेत्7

अग्निसाधने निमित्तनिरीक्षणम्

विना यत्नेन दीप्यते शेिखाभिरुज्ज्वलदिभसहेितो वा भवेत प्रदक्षिण वा आवर्तते हृद्य बा गान्धं रूपं पा सुमनोरमं सोऽग्निः 8सिद्धिं करोति ।विसृजेद्रा विस्फुलिङ्गान् दुर्गन्धो यदि वा न दीप्यते अपसव्यं ज्वलत्यसिद्धये ।तस्मादेवं ज्ञात्वा साधयेत् । दक्षिणनयनादिस्फुरणमुपलक्षयेत् ।9उदहनकाले यदाऽऽज्यगन्धो वाति तथा हस्तप्राप्ता श्रीरिति बेदितव्यम् ।एवं नियमेन पद्महोमः फर्तयः ।

होमकाले वज्यनेि

पद्मशकलैः पुराणपुष्पैः न जुहुयात् श्रियोऽप्रियाणि भवन्तीति । दिनद्वयमतीताना पुराणत्वमाचक्षते । हस्तद्वयेन चामहस्तेन वा न होतव्य यातुधाना गृहीयुरिति ' । वाग्यत एव जुहुयात् । वार्तायुक्ताऽहुतिमसुरा " गृह्णन्ति ।


1. B - अनवक्ष्य, 2. घ. ज. आराध्यतममात्रं. स्, अगराद्यतन्मात्रं, 3. B. येन केनचिड्युक्तवरराजश्री, 4. W - विद्यता, 5. W - ब्रह्मविदः, 5. ज - द्विशततम 7. W - उपनयेत्, 8. W - सिद्धिकर, 9. W - उद्धमहत, 10. दछ - यदि, 11. \ - गृहन्तीतेि, 12. M