पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये नकाण्डे इत्यानम्य ध्वजदेवं विसर्जयित्वा ध्वजमवरोपयेत् । अथवा तद्दिनाद्ये यहे रात्रौ वा स्वजमवरोपयेत् (‘पौराणिकेषु पर्वतवनाश्रयवापीवेलासासरतीरस्थे च वास्तुरहिते देशे चालये देवस्योत्सवमिच्छतो बल्युत्सवादींस्तदालयं परितः कुर्यात् । एतदुत्सवेन देवेशः सुप्रीतो भवेत् । अनेनैव गोब्राह्मणादि चातुर्वर्यसमृद्धिः सस्यविवर्धनं माल्यं सर्वसम्पत्करमशुभनाशनं प्रामादिशान्तिः सर्वकामावाप्तिले भवन्ति । एतेन सर्वे देवाश्च प्रीता भवेयुः । तस्माद्विष्णोत्सवं भक्तया यः कुर्यात् सोऽयं रहस्यानि प्रकाशानि च पापानि पूर्वजन्मसु इहजन्मनि च कृतानि सर्वाणि मोचयित्वा सर्वकामानवाप्नुयात् । एवं यस्य विष्णोरालयार्चनम ग्निहोत्रं शश्वतं तिष्ठेत स तद्विष्णोः परमं पदं गच्छतीति ब्रह्मवादिनो वदन्ति । एतस्मिन् नित्याग्निहोत्रे ‘थजने चातुर्वर्थेषु ब्राह्मणायाः त्रैवर्णिकाः शस्ताः । चतुर्थः शूद्रोऽनुलोमोऽपि सर्वस्य नेतारं राजानं यजमानं सङ्कल्प्यैव कारयेत् । प्रतिलोमानामन्तरालानां ब्रात्यानाञ्च नैवाधिकार इति कश्यपः । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे अवभृथपुष्पाञ्जलि प्रदानयाजनाधिकारिनिर्णयो नाम त्रिणवतितमोऽध्यायः । ।। अथ चतुर्णवतितमोऽध्यायः ।। पञ्चधा आरि अथ ‘चातुर्वर्णकाः अनुलोमाः प्रतिलोमा अन्तराला ब्रात्याश्चेति जातयः पञ्चधा भवन्ति । तत्र ब्रह्मणादि चतुर्वर्णेषु जाताः चातुर्वर्णका , उत्कृष्टान्निकृष्टायामनुलोमाःनिकृष्टादुत्कृष्टायां प्रतिलोमा, तथा अमुलोभात्प्रति 1. चिह्नितभाग: क. कोके. 2. ख. एतेनोत्सवेन B.सवेन. 3. क. तस्मिन् 4. क. यजमानाः चातुर्वर्ययु. 5. इदं समस्तं पदं दृश्यते सर्वत्र चातुर्वर्णकानुलोमे स्यादि. 6. क, जाति: पञ्चधा. इति.