१८० श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे ।। अथ त्रिणवतितमोऽध्यायः ।। तीर्थदिनात्पूर्वरात्रावुत्सवान्ते देवेशमभ्यर्थ हविर्निवेद्य चक्रञ्च ग्राम मालयं वा प्रदक्षिणं कारयित्वा च तीर्थजले संस्नाप्य आलयं प्रविश्य दक्षिण पार्श्व 1भवतः संस्थाप्य पुण्याहं वाचयित्वा प्रतिसरं बद्ध्वा पूर्ववच्छयने देवेश शाययित्वा नूतगेयाभ्यां रात्रिशेषं नयेत । प्रभाते स्नात्वा देवमुत्थाप्य त्रयो दशोपचारैरर्चयेत् । यस्य देवस्य यदर्थ प्रतिसरबन्धनं कृतं तत्समाप्त्यन्तं ताक्तस्य हविर्निवेदनं प्रतिषिद्धम् । तदालयगतदेवानां सर्वेषाभित्येके । देवेशं तथैवालहृत्य प्रातः पूर्ववत्प्रदक्षिणं कारयित्वा आलयं प्रविश्य संस्थाप्य विमानाइणे गोमयेनोपलिप्य तत्र उलूखलमुसलौ सन्न्यस्य तयोः। बशानावभ्यर्य हरिद्रामादाय प्रोक्ष्य तस्य लक्ष्मीमावाह्य श्रिये जात इत्युलूखले हरिद्रां प्रक्षिप्य आचार्यः अतदेवादिना पेषयित्वा तच्चूर्णाः द्वादशाष्टौ चतुरो द्वावेकं वा कलशानापूर्य अग्रे निधाय सिनीवालीं तस्मिन्नराध्य तच्चूर्णेन देवेशं संस्नापयेत । तच्चूर्ण यश्शिरसि विन्यसेत् तस्याशुभानि नश्यान्त । मध्याहे ततो देवेशं चक्रञ्च प्रामं प्रदक्षिणं कारयित्वा समुद्रे नदीं तटाकं वा शुद्धजलं गच्छेत् ।’ योजनादर्वाक न गच्छेत् । अथवा विष्ण्वालयसमीपस्थं तोयम । तस्य पादावसेचनात् गड़गाजलसमं तस्मात्तत्र वा तीरे देवेशं तत्प्रमुखे चक्रञ्च संस्थाप्य अग्रे पञ्चकलशान् जलैरापूर्य मथ्यप्राग्दक्षिणपश्चिमोतरेषु सन्न्यस्य तेषु मृत्कुशपुष्पगन्धाक्षतानि क्रमेण प्रक्षिप्य देवेशमभ्यर्य स्नपनोक्तमन्त्रैरेव तत्कलशाम्भोभिः देवेशमभ्युक्ष्य तच्छेषजलेनॐ चक्रञ्च संस्नापयेन् । ततो 1. B. भगवन्तं. 2. क. अभ्यर्चयत्. 3. इत आरभ्य पेषयित्वेत्यन्तं. B. कोशेपु नास्ति, 4. क. क्रोशादर्वाक् गच्छेत . 5. क. भवेन.