पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे विमानं तद्दिगन्तमेतन्मन्त्रेण स्थापयेत् । तन्मूले प्रतिदिक् पादविस्तारोन्नतं पीठं कृत्वा पुण्याहान्ते ध्वजदेवमभ्यर्थी मौद्रिकं हविर्निवेदयेत् । ध्वजावरोहणं यावत्तावद्देवं सप्तविंशतिविग्रहै: नित्यमभ्यर्च हविर्निवेदयेत्। अथवा आपद्युत्सवे प्रधमेऽहनि सयं ध्वजमारोप्याऽघोष्य सद्य एवोत्सवमारभेत । एक्काहोत्सवे ध्वजारोहणं न विधीयते । ध्वजे समारोपिते तमस्थाः तदुत्सवावभृथात्पूर्वं ग्रामान्तरं न गच्छेयुः । गतानां महाव्याधिर्भ इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे उत्सवघोषणं नाम एकनवतितमोऽध्यायः ।। ।। अथ द्विनवतितमोऽध्यायः ।। अथोवं शिबिका ‘रथयन्त्रहोलादिनानाविधयन्त्ररङ्गान् मालादीपधूलदी पहस्तदीपान् बहु सङ्गृह्य भेरीपटहकाहलमृदुखमर्दलगोमुखतालझश्नरीवल्लरीवञ्जुल जयघण्टिका शङ्खवीणावेणुमृदङ्गपणवभाण्डादिवाद्यानि सङ्गृह्य तद्वादको नर्तकगायकांश्च भक्तान परिचारकांशाहूय छत्रचामरबर्हिणतालवृन्तध्वजपताकादीन लङ्कारान् सर्वानपि, अशक्तश्चेत् परिच्छदान् हविर्द्रव्याणि सम्भारानपि सम्भूत्य उत्सवादिदिने देवालयं संमार्य गोमयेनोपलिप्य छत्रचामरपझोत्पलादिकुसुमानि पूर्णकुम्भपालिकादीनि गजाश्वसिंहचक्रवाकहंसध्वजपताककदलीक्रमुकादिरूपाणि पैष्टिकादिपञ्चवर्णा: कारयित्वा आलये सर्वत्र धूपदीपैश्च वितानध्वजदर्भमालास्तम्भ वेष्टनपुष्पदामाद्यलक्झरैरलङ्त्य द्वारेषु क्रमकपूर्णकुम्भाऊरान् सन्न्यस्य ग्रामवीथीः। संशोध्याभ्युक्ष्य कदलीक्रमुकपूर्णकुम्भादुरध्वजादिभिरलहृत्य तट्टामवासनिो जना अप्याभरणगन्धमाल्यैरलये । 1. क. यद्युत्सव. 2. सद्य इति B. शेपु न दृश्यते. 3. च, गतवतो नाम. 4. क. ररुड. 5. क, प्रदर्दरटकर. B. . टकर