पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये जानकाण्डे पिरकीटकोटरचक्रवर्जितं सङ्गृह्य बिमानस्य समं पादहीनमठं वा आयत । 'नातिस्थूलं नातिकृशं तस्याग्रादधो द्वियमे ततः पञ्चयमे वाऽष्टयमे च यष्ट्याधारं यमायामं अर्धविस्तारं मध्यछिद्रयुतं यज्ञीयैः वृक्षेः कृत्वा सुदृढं योजयित्वा खण्डस्फुटितवर्जितं कार्पासकं चतुस्तालविस्तृतं द्वादशदशाष्टसप्तताला न्यतमायतं विमानद्वारसममायतमर्धविस्तते चा नवं ध्वजपटं सङ्गृह्य तत्पटं चतुर्धा कृत्वा एकोशो द्वितालायामं वा अग्रे अग्नांशात्पार्श्वयोः क्षीणं रज्ज्वाधायुतं कृत्वा अधः पुच्छौ द्वौ द्वितालायतौ मध्ये क्रमादप्रान्तं क्षीणौ च कृत्वा अप्रेणाएं पुच्छेन पुच्छं योजयित्वा अग्रादघः पुच्छयोरूर्के च यष्टिं तिर्यक् संयोज्य ‘स्वस्ति दा’ इति ध्वजपटं कारयेत् । तन्मध्ये स्वस्तिकासनेन वीरासनेन बा आसीनं पादं वाममाकुञ्च्य दक्षिणं प्रसार्य आकाशमारोहन्तं वा पक्षसंयुक्तं द्विभुजं प्राञ्जलिं सुमुखाख्योरगारूढदक्षिणस्कन्धं नवतालमानेन गरुडं पञ्चबणैः समालेख्य दक्षिणवामयोः चक्रशङखौ द्वौ चामरावुपरि छेत्रं ..... तं ध्वजमद्भिः प्रोक्ष्य एकविंशतियमापततालपरीणाहमूले वेणुयुतं वेणु () सङ्गृह्य तद्यष्ट्यामप्रादधाः त्रियमे 'स्वस्ति दा’ इति ध्वजे बध्नीयात् । देवालयाभिमुखे मण्डपं कूटं वा कृत्वा आलिप्य तण्डुलैः त्रीहिभिर्वा त्रिवेदिसहितानि पीठानि कृत्वा प्राच्यां पीठे ध्वजं पश्चिमे चक्रमुत्तरे विष्वक्सेनं संस्थाप्य ध्वजे गरूडमावाह्य सप्तविंशतिविग्रहैरभ्यर्य मौद्रिकं हविर्निवेद्य तथा चक्रशान्तावभ्यच्यं हबिंर्निवेद्य पुण्याहं वाचयित्वा दक्षिणे धान्यराशौ न्यस्तभेर्या ‘नन्दीशं महाभुजं रुद्रप्रियं भूतेश“मिति नन्दीशमावाह्याभ्यर्चयत् । ततो यजमानो गुरुं वरुनोत्तरीयाभरणायैः पूजयेत् । स गुरुः कटाहे बलिद्रव्यैः युक्तमन्नं प्रक्षिप्य अग्रतो ध्वजपताके ततोऽनु भेरीपटहादीनि वाद्यानि धूपदीपादीन् बलिद्रव्यं ततोंऽनु छत्रपिञ्छ 1. इदं पदं । . कोशे नास्ति, 2. के. ततोऽष्ठ्यमे. 3. क. यमायाममर्धबिस्तारं 4. ऊध्र्वाग्रं इति तत्र क. कोशपाठः 5. क. त्रियमे खस्तिदा इति. 6. घ. कोशः पुनः आरभ्यते.