पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे । अथ षटूसप्ततितमोऽध्यायः ।। अथ नवविधमर्चनमः – अथमं मध्यममुत्तममिति त्रिविधं भवति । तदेकैकं त्रिधा कृत्वा नवधा भवति । उत्तमे विमानादौ सर्वमुतममेव कुर्यात् । तदुक्तमान्यूने कृते कर्तुर्महान् दोषो भवति । न्यूनेऽप्यधिकं कार्य श्रेष्ठमेव । तस्मान्यूनेऽप्यधिकमाचरेत् । प्रातर्मष्ठयाहयोद्ववि को वा रात्रौ चत्वारो द्वौ वा सन्ध्यादीपाः त्रिषु कालेषु पूर्वचदर्चनं प्रातर्मध्याह्मयोः यथालाभोपदंशादियुक्त माढकतण्डुलः पक्वं हविर्देवेशस्य मध्याहे वा तद्देव्योश्च मध्याहे प्रस्थाधिकतण्डुलै : पक्वं हविरपी रात्रौ पाद्याद्यध्यन्तैरेवार्चन धात्रादिद्वारदवविमानपालद्वारपालैर्यत्तं विष्वक्सेनस्य परिवारदेवस्यैकस्यार्चनमेकोऽर्चको द्वौ वा परिचारकावेित्येतैर्यक्त मधमाधमम् । एतस्मात् द्विगुणा दीपास्तथैव त्रिषु कालेषु चाढकं हविदेवेशस्य मध्याहे मूर्तिहोमोऽष्टांगुलमानान्नबलिर्देव्योः द्विप्रस्तं हविश्व प्रातर्निशि चाघ्र्य बलिः पूर्ववद्द्वारदेवादियुतं विष्वक्सेनगरुडौ परिवारदेवावेकोऽर्चकः पञ्च चत्वारो वा परिचारकाः यथाशक्ति वाद्यघोषणमेतैर्यक्तमधममध्यमम् । एतन्मूर्ति होमबलिवाद्यघोषणैर्विना कारयेत् । पूर्वस्माद्भद्विगुणाः सन्ध्यादीपाः द्वावहो रात्राविच्छिन्नदीपौ त्रिसन्धिषु हविष्पाकविधौ यथोक्तभागोपदंशघृतगुडदधिफल युक्तमाढकं हविर्देवस्य पूर्ववन्मूर्तिहोमोऽन्नाघ्र्यबली च प्रातर्मध्याङ्नयोर्देव्योर्हविः द्विप्रस्थं रात्रिपूजान्तेऽर्धयामेऽतीते देवस्यार्चनं द्विप्रस्थं हविनिवेदनञ्च यथाविधि मुखवासः तथा द्वारदेवादियुतं विप्वक्सेनगरुडेन्द्राद्यष्टदिग्देवा आदित्या इत्येका दशपरिवारदेवाः तेषां यथालाभमर्चनं बलिदानञ्च द्वावर्चकौ सप्त परिचारका पड़भिर्वाद्यवादकैरुषकाले मज्जने (?) चार्चनान्ते भक्तप्रणामार्थ यवनिकोद्धरणे मध्याहे हविर्निवदनबल्युद्धरणे च शङ्खादिवाद्यघोषणं ' त्रिष्वेतेषु नैव काल नियतिरेवमेतैर्युक्तमधमोत्तमम् । एतद्भद्विगुणा दीपाः हविर्विधिनैव यथोक्त भागोपदंशघृतगुडदधिफलैर्युतं द्रोणार्ध हविर्मध्याहे प्रातर्निशायामर्धयामे चाढकं