पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० श्रीवैखानसे भगवच्छाखे काश्यपीये ज्ञानकाण्डे मुद्रासारं कुडुब घृत्तमेकपलं गुडे प्रस्थं दधि तदर्घ वा कदलीचूतपनसाद्याना फलानि यथालाभानि षड्भश्चतुर्भिर्वा क्रमुकफलैः तत्रिगुणैः द्विगुणैर्वा ताम्बूलपत्रैर्युक्तो मुखवासः । चतुप्रस्थधिक तण्डुलेऽपि तथैव वर्धयेत् । देवेशस्य शुद्धौदनञ्च मौद्रिकं पायसं कृसरं गौल्यं यावकमिति हवींषि षड्विधानि च पाययेत् । तण्डुलैरेव पक्व शुद्धौदनं - तण्डुलस्य समेनाधेन पादेन वा मुद्रसारेण च युक्तं - मौद्रिकं तण्डुलस्याधेन मुद्रसारण त्रिगुणेन पयसा पक्वस्य पायसस्य गुडं घृतञ्च पादं पादं तण्डुलस्यार्धेन तिलयूर्णेन युक्तकृसरस्यापि गुडं घृतञ्च पादं पादं - यावतण्डुलस्य त्रिगुणदुग्धेन दुग्धार्धतोयेन तण्डुलमष्टभाग कृत्वा तत्पञ्चभागेन मुद्रसारेण च युक्तं तण्डुलसमेन गुडेन तदर्धघृतेन मिश्र गौल्यं - तण्डुलस्यार्धेन यवेन पक्वं यावकमस्थापि गुड घृतञ्च पादम् । सर्वालाभे शुद्धौदनमेव । मृद्भाण्डे पचनं श्रेष्ठम् । अलाभे लोहपात्रे वा । पुराणे भृद्भाण्डे न कुर्यात् । द्रोणार्धादधिकतण्डुलमेकपात्रे न पाचयेत् । आढकाधिकमिति केचित् । पाचकश्ध स्नात्वा ‘दुहता दिव' मिति जलमादायोत्पूय ‘प्रजास्थली' मिति स्थालीमाहृत्याभिमृश्य *इमा ओषधय' इति संशोध्य ‘विष्णवे जुष्ट' मिति तण्डुलान् प्रक्षिप्य ‘इदमापः शिवा' इति प्रक्षाल्य विष्णवे जुष्ट* मिति छुल्लयामारोपयेत् । तेनैवावरोपणञ्चाचरेत् । देवतीर्थेनाग्नौ तण्डुलान् ‘अग्नय इत्यमृता' येति च हुत्वा आग्नेय्या हवीरक्षकाय निक्षिप्य दुधूमातिधूमजन्तुकंटक विवर्दितैरिन्धनैः सुगन्धिभिः समाग्निना हवींषि पाचयेत् । पाचकस्तानि हवींषि विहायेपुमात्रमपि नैव गच्छेत् । अस्मिन्नभ्यन्तरे स्विन्न चाशुभं दैविकं हवि भर्भवति । तस्मात्सोऽपि वर्जनीयः । एवं सम्यक् पक्वा तदुपरेि ‘विष्णो हत्यं रक्ष’ स्वेति किञ्चिद् घृतमाम्रावयेत्। उपदंशानेि प्रक्षाल्य पृथक् पात्रे रसगन्ध युतमेवं पाचयेत् । तुषकेशकीटपतंगादीनपि अपक्वविरसान्यगन्धविवर्णश्वासघ्राण