पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ श्रीवैखानसे भगवच्छास्र काश्यपीये ज्ञानकाण्डे देवस्य त्चे' त्याज्येनाभिघार्य पात्रे * अमृतोपस्तरणम ' सीत्यन्ने प्रक्षिप्य ‘यते सुसीम’ इति घृतमाम्रात्य अन्ने ‘प्रजापतिं ब्रह्माणममृतमयं सर्वभूत' मित्यन्नाधिदेवं पूजयित्वा तत्सम मध्ये सुस्थितं सुदृढं सोष्णं द्वादशाङ्गुलैरेकादशाङ्गुलैर्वान्श्यं द्विगुणपरीणाहमूलं तदर्धमग्न किञ्चित्फुल्लाम्बुजाकारं हस्ताभ्यां बलिं कृत्वा पात्रं रविमण्डलं बलिमम्बुजं स्मृत्वा तन्मध्ये सुवर्णवर्ण रक्तनेत्रं सुखोद्वहं शुकपिञ्छाम्बरधरं विष्णु प्रणवात्मकं किरीटकेयरहारप्रलम्बयज्ञोपवीतिनं श्रीवत्साई चतुर्भुजं शङ्ख चक्रधरमेवं ध्यात्वा योगेशं परं ब्रह्माणं परमात्मानं भक्तवत्सलमिति चतसृभिमूर्ति भिरावाह्य अध्यन्त पूजयेत् । अन्नबलेरधिदेवो रविः । अन्नाभावेऽघ्र्यबलिः । तस्याधिदेवः शशी । तस्मात्पात्रे शशिमण्डलं ध्यात्वा वसिष्ठं सोमं यज्ञाङ्गमिन्दु चन्द्रमित्यधिदेवमाराध्य पुष्पादीन् संशोध्याऽध्यै निधाय पूर्वबद्देवमावाह्याभ्यर्चयेत् । ‘ब्रह्मा देवानां - हिरण्यगर्भ ' इत्यभिमृश्य देवस्य त्वेतेि तद्बलिं देबाभिमुखे दर्शयित्वा निधाय देवमनुमान्य स्थित्वा अतो देवादीन् जपेत् । पूर्वोक्तलक्षणसम्पन्नो बलिधारको वस्रोतरीयस्वर्णसूत्राङ्गुलीयाभरणहेम पुष्पादिभिरलङ्कतः श्रीभूतस्य पश्चिमे देवाभिमुखस्तिष्टन् 'सहन्नशीर्षादीन् जपेत् । तं शिष्यं गरुड इति ध्यात्वा पुष्पगन्धाक्षतादिना पूजयित्वा ‘आपो हि' ष्ठेति प्रोक्ष्य ततोऽभ्यन्तरं प्रविश्य देवं प्रणम्य बलिमुद्धृत्य घण्टा ताडयित्वा ‘उद्यन्त’ मिति (?) जपन् गुरुशिष्यस्य शिरसि स्थापयेत् । “बृहस्पते ? इति बलिमादाय शिरसा वहन् “प्रतद्विष्णुस्तवत’ इति देवालयं प्रदक्षिणं करोति । वितानछत्रपिञ्छध्वजपताकासङ्यातततविततघनसुषिरादिवाद्यघोषञ्च कारयित्वा चामरैस्तालबर्हिणैरन्यैर्यजनैधूपदीपेरष्टमङ्गलैः हेमकलशादिपरिच्छदैः परिवृतः 1. ट. सहस्रशीर्वादि. 2. A. गरुडं. 3. उद्धयन्तमसः (१) 4. ग. बृह स्पतेर्मुञ् इति बलिमादाय. 5. छ. शिरसि स्थापयित्वा . 6. ग. प्रतद्विष्णुरिति 7. क.