पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७८
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

लोकाः । तस्मात् चतुरश्रमाहवनीयं स्वर्गलोकमिति औपासनविधानेन । चन्द्रार्धाकृतिमन्वाहार्यमन्तरिक्षलोकमिति ऊध्ववेद्या दक्षिणोत्तरं 1द्वात्रिंशत् 2प्राक्प्रतीच्यन्तरं षष्टिरेवं द्विवेदिसहितं विस्तारोत्सेधं भागं रसनिम्नमेवं कारयेत् । गार्हपत्यं पूर्णचन्द्राकृतिं भूलोकमिति उध्वदिः षट्त्रंशदङ्गुलं समम् । आवासथ्यं त्रिकोणं भहलकमिति ऊध्र्ववेद्येकभुजे षडयवाधिकमष्टचत्वारिंशदेवं 3त्रिभुजं द्विवेदिसहितम् । सभ्यं चतुरथं जनो लोकमिति । श्रामणाकाग्निकुण्हं ब्रह्मसो मपितृस्थानसमन्वितं विधिना कारयेत् । एतेषामाघारे महाप्रतिष्ठायां यथोक्तस्तथा पृथक् पृथक् भेदेनैव आघारं हुत्वा आहवनीये दौवारिकं गारुडं वैघ्न नागराज ध्वाज रवमहाभूत दैवत्यं अन्वाहार्ये इन्द्राग्नि यम गुह हवीरक्षकदुर्गामन्त्रैः गार्हपत्ये 4नीलवरुणवायुरोहिणीमातृपुष्परक्षकदैवत्यं आवसथ्ये कुबेरशानादित्यबलिरक्षकसरस्वतीदैवत्यं सभ्ये वैष्णवं सर्वदैवत्यं जुहुयात् । ब्राह्म श्रीभूमिदैवत्यं गारुडं वैष्वक्सेनमार्ष पारमात्मिकमीङ्कारादीन् क्रमेणाग्न्यास्ये जुहोति । प्रभाते स्नात्वा मृष्टसिक्तोपलेपनाचैः देवतागारं संशोध्य ध्वजपताका पुष्पदाम धूपदीपादिभिरलङ्कत्य शयनस्थं देवं सम्प्रणम्याभ्यन्तरं विभज्य किञ्चि न्मानुषमाश्रित्य दैविकस्थाने स्थानकस्य आसनं चेद्ब्रह्मसूत्राद्वामे शयनं दैवमानुष योर्मध्ये श्ध भागावगाढं 5पोडशाङ्गुलावगाढं वा द्विगुणविस्तृत चतुरश्र समुपकल्प्य कारयेत् ।।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोते ज्ञानकाण्डे पञ्चाग्निहोमविधिर्नाम चतुश्चत्वारिंशोऽध्यायः ।।


1. क. त्रिंशत.2. क. प्राापरं. 3. म. प्राङनिकात्यं निले विक्षोणं 4. म. इत आरभ्य शयनस्थमित्यन्तं न दृश्यते. 5. म. पडोशेति पदं दृश्यते,